________________
46
नाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुषोऽपि गुरोः स्यु-मोक्षदाः सविनयाः सुविनेयाः ॥ ३६॥ इति || उपराज्य- श्रीचंडरुद्राचार्यकथा ॥ इति सूत्रार्थः ॥ १२ ॥ अथ गुरुचित्तानुवृत्तेरुपायमाहबननम् | 2 मूलम्-नापुट्ठो वागरे किंचि, पुट्ठो वा नालिअं वदे ॥ कोहं असञ्चं कुग्विजा, धारिजा पिअमप्पि॥१४॥ PIRom ॥१७॥
___व्याख्या-नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किंचित् स्तोकमपि, पृष्टो वा नालीक-31 | मनृतं वदेत् , कारणांतरेण च गुरुभिर्निर्भसितोऽपि न तावत्कुप्येत् , कथंचिदुत्पन्नं तु क्रोधमसत्यं तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टांतः-तथाहि कुत्रचिद्ग्रामे, कुलपुत्रस्य कस्यचित् ॥ सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ॥ १ ॥ ततस्तजननी पोचे, तमिति प्रत्यहं मुहुः ॥ प्रभविश्नुरपि भ्रातृ-घातक हंसि नो कुतः ? ॥२॥ बलिनो मलसायंते, |
वैरशुद्धथै न कर्हिचित् । न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः! ॥३॥ तदाकर्ण्य सरोषेण, तेन पौरुषशालिना । जीवग्राहं प्रगृ. ॐ ह्यारि-रानिन्ये मातुरन्तिकम् ॥ ४ ॥ प्रोक्तश्चारे! भ्रातृघातिन् !, कथं त्वा मारयाम्यहम् ? ततः स प्रांजलिः प्रोचे, कृपाणं प्रेक्ष्य में
कंपितः ॥५॥ हन्यते शरणायाता, यथा त्वं मां तथा जहि ॥ सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्षत ॥६॥ सापि तं दीनतां प्राप्तं, | प्रेक्ष्योत्पन्नकृपाऽलपत् ।। आर्यैः पुत्र! न मार्यते, कदापि शरणागताः ॥७॥ यतः-"शरणागतविस्रब्ध-प्रणतव्यसनार्दितान् । रोगिणः 18 पंगुमुख्यांश्च, नैव नंति महाशयाः! ॥८॥" पुत्रः प्रोवाच मातम, रोषः स्यात्सफलः कथम् ॥ सर्वत्र सफलः कोपो, न कार्य है इति साप्यवक् ॥ ९ ॥ इति मावृगिरा जातो-पशान्तिस्तं मुमोच सः॥ तौ नत्वा क्षमयित्वा च, स्वागः सोऽपि गृहं ययौ ॥१०॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधेकिलकोपम् ॥ तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥११ ।। इति