SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ E उचराध्य अध्य०३ luPPON ॥२२०॥ सम्बोऽभूत् श्रावकाग्रणी ॥ जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः ॥ २४ ॥ स तं सतत्वमायातं, श्रुत्वान्यश्रावकैः समम् ॥ तत्रोयानेऽगमचं च, प्रणनाम यथोचितम् ॥ २५ ॥ तद्देशनां च शुभाव, निहवं तं विदबपि ।। तदने निष्यगुप्तोऽपि, निजं प्राकाशय. न्मतम् ॥ २६ ॥ समये बोधयिष्यामि, दृष्टातेनेति चिन्तयन् ॥ मित्रश्रीन समं तेन, विवादं विदधे तदा ॥ २७ ॥ किन्तु स | प्रत्यहं तत्र, तं नन्तुं मायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदांयतामपि ॥२८॥ अथ जेमनवाराऽभू-दरिष्ठा तद्हेऽन्यदा ।। तदोद्याने तमाहातुं, मित्रश्रीश्रावको ययौ ॥२९॥ अद्य यूयं स्वपादाम्यां, पावित्रयत मद्हम् ।। इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय सम् ॥३०॥ सोऽथ हृद्यैः खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः ।। भृतानि बहु पात्राणि, ढौकयामास तत्पुरः ॥३१॥ खाद्यस्यैकमशं, तिलमात्रं च तस्य सः॥ ददावेवं मोदकादे-रपि सर्वस्य वस्तुनः ॥ ३२ ॥ इत्थं कूरस्य सूपस्या-प्येकैकं सिक्थमा. यत् ॥ घृतस्य बिन्दु शाकस्या-प्यंशं तन्तुं पटस्य च ॥ ३३ ।। स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना ॥ पूर्वमेवं ददात्येष, पश्चात्पूर्ण प्रदास्यति ॥ ३४॥ मित्रश्रीस्तु तदा प्रोचे, बन्धने स्वयं नमन् ॥ द्रुतं नमत भो ? यूयं, निर्ग्रन्थान् प्रतिलम्भितान् ॥ ३५ ॥ ततः सशिष्यः सोऽवादी-त्कि वयं धर्षिता इति ! मित्रश्रीरब्रवीद्यूयं, मयका धर्षिताः कथम् १ ॥३६ ॥ अन्त्या हव. | यवा देय-वस्तूनामर्षिता मया ॥ अन्त्यावयवमात्रश्च, मते वोऽवयवी भवेत् ॥ ३७॥ तच्चेत्सत्यं तदा का हि, धर्षणा विहिता मया?॥ एभिरेव हि पूर्णानां, कार्य माघि भवन्मते ॥ ३८ ॥ अथ चेदईत वाणी, सूनृताभ्युपगम्यते ॥ तदा तेषां मतेनाई, भवन्तं प्रतिलम्भये ॥ ३९ ॥ सया गिरा सिष्यगुप्ता, सम्बुद्धः सपरिच्छदः॥ इत्यम्यधान्महाश्राद्ध, सत्येयं प्रेरणा कृता ॥४०॥ अथ वीर अमरः। CE
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy