SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ उचराध्य पनसूत्रम् ॥२१९॥ जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण - व्यपदेशो न वास्तवः || ६ || लोकाकाशप्रदेशौघ - तुल्याशेषप्रदेशवान् ॥ जीवः पुनर्जीव इति, व्यक्तव्यो व्यक्त बुद्धिभिः ॥ ७ ॥ एनमर्थमधीयानो ऽधमकर्मोदयेन सः ॥ तदा विप्रतिपेदानः, स्थविरानित्यभाषत ॥ ८ ॥ एकेनापि प्रदेशेन, विहीनाः सकला अपि ॥ जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् १ ॥ ९ ॥ तदा स एव वक्तव्यः, प्रदेशो जीवसञ्ज्ञया ॥ तद्भाव एव जीवत्वं भवतीति विनिश्वयात् ॥ १० ॥ ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् १ ॥ नह्येकस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ॥ ११ ॥ अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः ॥ घटस्येवाणवस्ते च तुल्याः सर्वे परस्परम् ॥ १२ ॥ तद्विशेषात्कुतस्तस्यै- कस्य जीवत्वमिष्यते ? ॥ पूरणादिति चेत्तन्न, युक्तं युक्तिविरोधतः ॥ १३ ॥ यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः । तेषामन्यतमेनापि, विना स्याज्जीवता न यत् ॥ १४ ॥ अथान्तिमत्वादिति चेत्, तदपि स्यान्न यौक्तिकम् || अन्तिमत्वं यतस्तस्या - ssपेक्षिकं न तु तान्त्रिकम् ॥ १५ ॥ आपेक्षिकश्च नैकत्र, नियतं स्यात्कदाचन ॥ अपेक्षा शत| स्वस्य सर्वत्रापि प्रर्वतनात् ॥ १६ ॥ तदेकेन विना तेन, जीवन्रत्वं न यथाऽपरे ॥ लभन्ते न तथा सोऽपि, तैर्विनामोति जीवताम् ॥ १७ ॥ " ततश्च" अणावेकत्र नो कुम्भ-व्यपदेशो भवेद्यथा । तथैकस्मिन्प्रदेशे स्या- निर्देशो नात्मनोऽपि हि ॥ १८ ॥ भवेत्प्रदेशादेकस्मात्पूर्णस्यार्थक्रियापि न । पटकार्ये हि नो तन्तो- रेकस्मादुपलभ्यते ॥ १९ ॥ तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् ॥ श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं जनुः ॥ २० ॥ एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः ॥ कदाग्रहगृहीतः स न तत्कुमतमत्यजत् ॥ २१ ॥ ततः कायोत्सर्गपूर्व, सूरीन्द्रैः स बहिष्कृतः । पर्याट पृथव्यां कुमतै- र्जनान् व्युद्राहयन् घनान् ॥ २२ ॥ पुर्यामामलकल्पायां, सोऽन्यदा पर्यटन् ययौ ॥ आम्रसालवने चास्या - त्स परिच्छदसंयुतः ॥ २३ ॥ तस्यां पुर्यां च मित्रश्री 5+++ अच्य०३ ॥२१९॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy