________________
पटोदयः ॥ २९॥" न चाऽध्यक्षविरोधोऽपि, सम्मवेदिह कहिचित् ॥ संस्तीर्यते यदनादि, तद्धि संस्कृतमेव यत् ॥ ३०॥ या
सध्या उचराम्य वत् प्राक संस्कृतं तावत् , पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा-आऽनवस्थापि विद्यते ॥ ३१ ॥ यच्चारम्भक्षणे कुम्भो
माग११६॥ | पलम्मोऽस्त्विति भाषितम् ॥ तदप्यसबदन्यस्या-म्मेऽन्यद् दृश्यतां कथम् ॥ ३९॥ तदा हि शिवकादीना-मेवावान्तरकर्मणाम् ॥ ॥२१॥
- वर्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥ ३३ ॥ कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्मे
स्थूलबुद्धितः ॥ ३४ ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन-श्छवस्थानां भवादृशाम् ॥ ३५॥ सर्वज्ञोऽप्य६ नृतं ब्रूया-दिति त्वद्वचनं नः ॥ सतां न श्रोतुमप्यई, मदोन्मत्तप्रलापवत् ॥ ३६ ॥ तज्जैनेन्द्रं वचस्तथ्य, मा दषय महामते ।। | दुष्कर्मणामुना मा स्म-भ्राम्यस्संसारसागरे ॥ ३७॥ एकस्यापि जिनोक्तस्य, पदस्योत्थापने जनः॥ मिथ्यात्वं लभते तस्मा-दिदमालोचय द्रुतम् ॥ ३८ ॥ तैरित्युक्तोऽपि नात्याची-जमालिः स्वाग्रहं यदा ॥ तदा विहाय त केचि-मुनयो जिनमाश्रयन् ॥ ३९ ॥ केचित्तु श्रद्दधानास्त-न्मतं तस्थुस्तदन्तिके ॥ अथाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ॥ ४० ॥ तदग्रेऽपि जमालिस्त-स्मतं प्राग्वन्न्यरूपयत् ॥ पूर्वस्नेहात्साऽपि सर्वे, प्रत्यपद्यत तत्तथा ॥४१॥ गत्वा चोपाश्रये टङ्क-कुम्भकारस्य वेश्मनि ॥ प्राकाशयत्पुरः सर्व-साध्वीनां वपतेर्मतम् ॥ ४२॥ शय्यातरस्य टकस्या-ऽप्यग्रे सा तदबोचत ॥ स तु श्राद्धस्तदाकर्ण्य, दध्यावेवं विशुद्धधीः ॥ ४३ ॥ उत्थापयत्यसौ जैन, वचस्तथ्यं तदाग्रहात् ॥ तदिमां बोधयिष्यामि, समये कापि युक्तिभिः |॥४४॥ ध्यात्वेति सोब्रवीदायें 1, विशेषमहमीदृशम् ॥ सम्यग्जानामि नो किन्तु, यूयं जानीय तद्विदः॥ ४५ ॥ कुलाला सोडन्यदा पक-भाण्डान्युदर्तयन्स्वयम् ॥ स्वाध्यायकरणकान-श्रीबीरदुहितुः पटे ॥४६॥ चिक्षेप ज्वलदङ्गारं, धीमान्केनाप्यलधि
॥ केचित्तु श्रद्दधानास्त-
सापि सर्व, प्रत्यपगत
स्या-ऽप्यने सा तदवोच