________________
उचराज्ययनसूत्रम्
॥२१५॥
कर्हिचित् ॥ अन्तप्रान्ताशनेदध-ज्वरः प्रादुरभून्महान् ॥ १३ ॥ उपविष्टतया स्थातु - मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ॥ १४ ॥ ततः संस्तारकं कर्तुं प्रवृचान् व्रतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत् मुहुर्मुहुः ॥१५॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते । तैरित्युक्ते परिभ्रष्ट - सम्यक्त्वः स व्यचिन्तयत् ॥ १६ ॥ 'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् १ ॥ संस्तारको यत्संस्तीर्य - माणोऽप्येष न संस्कृतः ॥ १७ ॥ तदध्यक्षेविरुद्धत्वा-तन्त्र सङ्गतिमङ्गति ॥ विमृश्ये| त्यखिलान्साधू - नाहूयैवमभाषत ॥ १८ ॥ ' क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् ॥ मिथ्याध्यक्षविरुद्धत्वा-च्छैत्यं हुतंभुजो यथा ॥ १९ ॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्क्वचित् ॥ संस्तारको यत्संस्तीर्य - माणोऽप्येष न संस्तृतः ॥ २० ॥ निष्पद्यते क्षणव्यूहै - यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य - समयेऽपि निगद्यते ? || २१ || प्रारम्भेऽपि कृतं चेत्स्या- तदाऽन्यत्र क्षणव्रजे ॥ कृतस्यैव विधानेना- नवस्था स्यादमाहता || २२ || सत्यप्येवं मन्यते चेत्क्रियमाणं कृतं तदा || घटादेरुपलम्मोऽस्तु प्रारम्भक्षण एव हि ॥ २३ ॥ ' कृतमेव कृतं तस्मा द्यौक्तिकं भो महर्षयः ! ॥ तदनुं मामकं पक्षं, कैक्षीकुरुत सूनृतम् ॥ २४ ॥ न च वाच्यं स सर्वज्ञः कथं मिथ्यावदेदिति ? ॥ यद्ब्रूयात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ॥ २५ ॥ एवं विप्रवदन्तं तं जमालि मार्गविच्युतम् ॥ स्थविरा: प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः ? || २६ ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः ॥ वचनेऽपि च नो तेषां दोषलेशोऽपि सम्भवेत् ॥ २७ ॥ [तथाहि ] आद्यक्षणे चेत्कार्यस्यो - त्पत्तिर्न स्यात्तदा कथम् || क्षणान्तरे तदुत्पत्तिः स्यात्क्षणत्वाविशेषतः १ ।। २८ ।। उक्तञ्च - “आद्यतन्तुप्रवेशे च नोतं किञ्चिद्यदा पटे || अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न
१ प्रत्यक्षविरुद्धत्वात् । २ अग्नेः ३ स्वीकुरुत ।
अध्य०३
||॥ २१५ ॥