________________
उचराध्य
यनसूत्रम् ॥२१४॥
त्ति वैशेषिकाभिमतषट्पदार्थ निरूपकत्वादुलुकगोत्रत्वाच्च पडलूको रोहगुप्तस्तस्मादुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः स्पृष्टं कञ्चुकवत्, अबद्धश्चाऽसम्बद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशैः समं कर्मेति शेषः, प्ररूपयन्ति, अनेन च गोष्ठा माहिलादेवाबद्धिकानामुत्पचिरिति सूचितमिति गाथाद्वयाक्षरार्थः ॥ २ ॥ भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं - " श्रीवीरज्ञानतो वर्षे - चतुर्दशभिरुत्थितं ॥ तेष्वादिनिह्नवस्यादौ, वृत्तान्तं वच्मि तद्यथा ॥ १ ॥ -
पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनस्वसुः || सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ॥ २ ॥ जगत्रयमनोहारि - दर्शना प्रियदर्शना || श्रीवीरस्वामिदुहिता, प्रिया तस्याभवत् प्रिया ॥ ३ ॥ अन्येद्युस्तत्र भगवान्, श्रीवीरः समवासरत् ॥ जमालिया साकं सर्वे नन्तुमगाचदा ॥ ४ ॥ स्वामिदेशनया जात - संवेगः संयमोत्सुकः ॥ गृहं गत्वाग्रहीत्पित्रो - रनुज्ञां स | कथञ्चन ॥ ५ ॥ महोत्सवैस्ततो विश्व - श्लाध्यैर्गत्वाऽर्हतोऽन्तिके ॥ जमालिः प्राब्रजत्पश्च - शतक्षत्रियसंयुतः ॥ ६ ॥ तदा च खा| मिनः पुत्री, तत्प्रिया प्रियदर्शना || प्रात्राजीत्स्वामिनोऽभ्यर्णे, स्त्रीसहस्रेण संयुता ॥ ७ ॥ जमालिश्रमणः सोऽथ, विहरन् खा| मिना समम् || पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ८ ॥ ततः साध्वी सहस्रं तत्साधु पञ्चशतीं च ताम् ॥ प्रभुस्तस्मै ददौ | शिष्य तयाम्मुख्यं विधाय तम् ॥ ९ ॥ सोऽन्यदा स्वामिनं नत्वा पप्रच्छेति कृताञ्जलिः ॥ सतन्त्रोऽहं विभोऽन्यत्र, विहरामि त्वदा| ज्ञया ॥ १० ॥ लाभाभावात्प्रभुस्तसै न ददौ किञ्चिदुत्तरम् ॥ अनिषिद्धं धनुमत-मिति मेने तदा स तु ॥ ११ ॥ निरगाच्च | प्रभोः पार्श्वा-द्विहर्तु सपरिच्छदः ॥ क्रमाच्च पुर्यां श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ १२ ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य
१ पुत्री । २ भार्यया । ३ अर्हतम् । ४ सपरिवारः ।
अध्य०३
॥२२४॥