________________
उचराज्य
यनसूत्रम् ॥२१२ ॥
व्याख्या—‘कर्मसङ्गैः’ज्ञानावरणीयादिकर्मसम्बन्धैः सम्मूढाः अत्यर्थ मूढाः 'दुःखिताः' असातयुक्ताः कदाचिचन्मानसमेवैकं स्यादित्याह – 'बहुवेदना:' भूरिशारीरपीडा : 'अमानुषीषु' नरकतिर्यगाभियोग्यादिदेव दुर्गति सम्बन्धिषु योनिषु विनिहन्यन्ते' विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते 'प्राणिनः' जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ॥ ६ ॥ कथं तर्हि तदवाप्तिरित्याह
मूलम् - कम्माणं तु पहाणाए, आणुपुत्री कयाइ उ ॥ जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ ७ ॥
व्याख्या - कर्मणां 'तुः' पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां " पहाणाए "चि 'प्रहाण्या' अपगमेन, कथं प्रहाणि - रित्याह- 'आनुपूर्व्या' क्रमेण, न तु झगित्येव, अत एवाह - "कयाइ उ" ति तु शब्द एवकारार्थे, ततः कदाचिदेव न सर्वदा 'जीवाः ' प्राणिनः 'शुद्धिम्' क्लिष्टकर्मापगमात्मिकाम्, 'अनुप्राप्ताः' सम्प्राप्ताः 'आददते' स्वीकुर्वन्ति 'मनुष्यताम्' मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिमिरेव तदायुर्बन्धादिति सूत्रार्थः ॥ ७ ॥ एवं कथञ्चिन्मानुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याह
मूलम् - माणुस्सं विग्गहं लधुं, सुइ धम्मस्स दुलहा ॥ जं सुच्चा पडिवजंति, तवं खंतिमहिंसयं ॥ ८ ॥
व्याख्या – “माणुस्सं” ति सूत्रत्वात् मानुष्यकं - मनुष्य भवसम्बन्धिनं विग्रहं' देहं, "लढुं" ति लब्ध्वाऽपि, अपेर्गम्यत्वात्, 'श्रुतिः' श्रवणं, धर्मस्य 'दुर्लभा' दुष्प्रापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्मः “ मृद्वी शय्या प्रातरुत्थाय पेया " मध्ये भक्तं पानकं चापराह्ने ॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्रान्ते शाक्यसिंहेन दृष्टः || १ ||" इत्यादिर्वौद्धादिकल्पितोऽपि स्यादतस्तदपोहार्थ
अध्य०३ ||११२॥