SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ F उचराध्य अध्य०३ ॥२१॥ पवस्त्रम् ॥२१॥ KARANAS व्याख्या-एकदा 'क्षत्रियः' राजा भवति, जन्तुरिति गम्यं, सूत्रवैचिच्याबहुवचनप्रक्रमेप्येकवचनम्, ततः तदन्तरं 'चण्डाला' मातङ्गः, यद्वा शूद्रेण ब्राह्मण्या जातश्चण्डाला, 'बोक्कस' वर्णान्तरसङ्करजन्मा, तथाहि-ब्राह्मणेन शूद्या जातो निषादः, ब्राह्मणेनैव वैश्यस्त्रियां जातश्चाम्बष्ठ इत्युच्यते । तत्र निषादेनाम्बष्टयां जातस्तु बोकसो भण्यत इति वृद्धवादः । इह च क्षत्रियचाण्डालबोक्सग्रहणाद्यना थाक्रम सर्वा उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः 'कीट' प्रसिद्ध, 'पतङ्गः शलम: 'च: समुच्चये, कुन्थुः, पिपीलिका च, ८. भवतीति योज्यं, अशेषतिर्यग्भेदोपलक्षणश्चेदमिति सूत्रार्थः॥४॥ इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याहद मूलम्-एवमाषोणीसु, पाणिणो कम्मकिविसा ॥ न निविनंति संसारे, सबढेसु व खत्तिआ ॥ ५॥ व्याख्या-एवम् , अनेन न्यायेन 'आवर्तः पुनः पुनर्भमणरूपः परिवर्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवोत्पत्ति| स्थानानि आवर्तयोनयस्तासु, 'प्राणिनः' जीवाः, कर्मणा क्लिष्टेन किल्विषा:-अधमाः कर्मकिल्विषाः, 'न निर्विद्यन्ते' कदैतस्मात्पर्य४ टनान्मोक्षो भावीति नोद्विजन्ते, 'संसारे' भवे, केष्विव के ? सर्वे च ते अर्थाश्च-धनकनकादयः सर्वार्थाः तेष्विव 'क्षत्रियाः' राजानः, अयं भावः-यथा मनोज्ञान् शब्दादीन भुञ्जानानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि संसा. रिणां, कथमन्यथा ते तत्प्रतिघातार्थ नोद्यमं कुर्युः ? इति सूत्रार्थः॥५॥ ततश्चमूलम्-कम्मसंगेहिं संमूढा, दुक्खिआ बहुवेअणा ॥ अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥६॥ १०ये, ततः कुन्थुः, हर्षप्रतो । ACANCHECG
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy