________________
उचराध्यपनसूत्रम् ॥२१॥
A
44%%A5
|| मूलम्-समावण्णा ण संसारे, नाणागुत्तासु जाइसु॥ कम्मा नाणाविहा कटु, पुढो विस्संभिआ पया ॥२॥
व्याख्या-'समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, "ण" इति वाक्यालङ्कार केत्याह-'संसारे भवे, तत्रापि केल्याह-'नानागोत्राम' अनेकाभिधानासु 'जातिषु' क्षत्रियादिषु, अत्र हेतुमाह-'कर्माणि' ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वर्त्य तेषामधीनाः सन्तः "पुढो" ति पृथक् भेदेन एकैकश इत्यर्थः, "विस्संमिअ" ति प्राकृतत्वादनुस्वारलोपे 'विश्वभृतो' जगत्पूरका वर्तन्ते इति शेषः, कचित्कदाचिदुत्पत्त्या सर्वजगद्व्यापनादुक्तं च-"नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तो वि ॥ जम्मणमरणाचाहा, जत्थ जिएहिं न संपत्ता ॥१॥" ततोऽवाप्याऽपि नरजन्म स्वकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव 'प्रजाः' जनसमूहरूपा भवन्तीति दुर्लभमेव पुनर्नरजन्मेति सूत्रार्थः ॥२॥ एतदेव स्पष्टयति
मूलम्-एगया देवलोएसु, नरएसु वि एगया ॥ एगया आसुरं कायं, अहाकम्मेहिं गच्छइ ॥३॥ ६ ___व्याख्या-'एकदा' शुभकर्मानुभवकाले 'देवलोकेषु' सौधर्मादिषु, 'नरकेषु च' रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, 'एकदा' दुष्कमोदयकाले, एकदा 'आसुरं' असुरसम्बन्धिनं 'कार्य' निकाय, "अहाफम्मेहि" ति यथाकर्मभिः, तत्तद्गत्यनुरूपचेष्टितैर्यथायोगं सरागसंयममहारम्भबालतपः प्रभृतिभिः, "गच्छई"त्ति वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ॥ ३॥ | मूलम् एगया खत्तिओ होई, तओ चंडालबोकसो ॥ तओ कीडपयंगो अ, तओ कुंथुपिवीलिआ ॥४॥
"नास्ति किल स प्रदेशो, लोके वालाप्रकोटिमानोऽपि । जन्ममरणाबाधा यत्र जीवैर्न सम्प्राप्ता ॥ ॥"