________________
उपराष्य
पनसूत्रम् ॥२०९ ।।
अस्ति स्वयम्भूरमण - वारिधिर्वलयाकृतिः ॥ सहस्रयोजनोद्वेषो ऽसङ्ख्ययोजनविस्तृतः ॥ १ ॥ विहाय वलयं सर्वा - कारैर्जलचरैर्भृते ॥ सर्वेषामपि वार्द्धना - मन्तिमे तत्र नीरधौ ॥ २ ॥ देवः कोऽपि दिशि प्राच्यां, लीलया निक्षिपेद्युगम् ॥ युगस्य तस्य ककुर्भि, पश्चिमायां च कीलिकाम् || ३ || [ युग्मम् ] तस्मिन्नपारेऽकूपारे, अम्यन्ती समिलाऽथ सा ॥ स्वयमेव युगच्छिद्रे, प्रविशेकि कदाचन १ || ४ || प्रचण्डवातोत्थितवीचिनुन्ना, दैवात्स्वयं साऽपि युगस्य रन्भे ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः पुमान्पुनर्विन्दति मर्त्यभावम् ॥ ५ ॥ इति युगदृष्टान्तो नवमः ॥ ९ ॥ अथ परमाणुदृष्टान्तस्तथा हि-
स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ स्वसामर्थ्य परीक्षार्थ, गीर्वाणः कोऽप्यचूर्णयत् ॥ १ ॥ तच्च चूर्णमतिश्लक्ष्णं निर्माय परमाणुवत् || नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥ २ ॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः । द्रुतमुल्लालयामास तच्चूर्ण | परितोऽखिलम् || ३ || तेन देवेन विक्षिप्ता - स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्धूता, अभजन्त दिशोदिशम् ॥ ४ ॥ अथ विश्वत्रये कोsपि, शक्तिमान् विद्यते न सः ।। यस्तं स्तम्भं पुनः कुर्या - तैरेव परमाणुभिः || ५ || स्तम्भो यथाऽसौ परमाणुभिस्तैः केनापि निष्पादयितुं न शक्यः । प्रमादिना प्राणभृता तथैव भूयोऽपि लभ्येत न मानवत्वम् || ६ || इति । यद्वा काऽपि सभा भूरि-स्त म्भा दग्धा कुशी नुना । तैरेव पुद्गलैर्न स्या- तथा नृत्वेऽपि भावना ॥ ७ ॥ इति वा परमाणुदृष्टान्तो दशमः ॥ १० ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म- दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्मे महोदयकरे कुरुत प्रयत्नम् || ६२६ || इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मनुषत्वं दुर्लभं तथा दर्शयितुमाह
१ दिशि । २ समुद्रे । ३ वीचिनुता तरङ्गप्रेरिता । ४-५ देवः । ६ अग्निना ।
अभ्य०३ ||| २०९॥