SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ HASE * यमत्रम् | * * तम् ।। ७१ ॥ राज्ञः पुरस्ततो वृत्त-पत्रं तत्सचिवोमुचत् ॥ तद्वाचयित्वा स्मृत्वा च, सर्व भूपोऽप्यमोदत ॥७२॥ काऽधुना स उचराध्य अध्य०६ सुतोऽस्तीति, राज्ञोके धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि, तमालिङ्गचेत्यवोचत ॥ ७३॥ राधावेधं साधयित्वा, वत्स ! केना. प्यसाधितम् ॥ राज्ययुक्तां कनीमेना, स्वीकुरु त्वं महामते ! ॥ ७४ ॥ ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य सः॥ स्तम्भस्य तस्य ॥२०७|| पार्श्वे च, गत्वा चापमुपाददे ॥ ७५ ॥ अधिज्यीकृत्य तत्सत्य-सन्धः सन्धाय चाशुगम् ॥ ऊर्द्धमुष्टिरघोष्टि-स्तत्र तस्थौ च भूपभूः ।। ७६ ॥ दध्यौ निवृत्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् ॥ अहो! रूपमहो! कान्ति-रहो ! लावण्यमद्भूतम् ! ।। ७७॥ एष 3 विध्यति चेद्राधां, तत्कृतार्था भवाम्यहम् ॥ घ्यायन्तीति तदेकाग्र-चिचासीद्योगिनीव सा ।। ७८ ॥ तदा च तत्समीपस्था, ४) दासेरास्ते चतुर्दिशम् ॥ चक्रुः कोलाहलं प्रोचे-स्तालिकास्फालनादिना ।। ७९ ॥ तेऽपि द्वाविंशती राज-सुता उल्लण्ठभाषणैः॥ असौ है विध्यतु मा राधा-मित्यपायान् वितेनिरे ॥८॥ स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ ।। पार्श्वयोस्तस्थतस्तस्य, खड्गव्यPil अकरौ नरौ ॥ ८१ ॥ समीपस्थः कलाचार्यो-ऽप्येवं साह मुहुर्मुहुः ॥ स्खलिते ते वधो भावी, तद्भूयास्त्वं समाहितः॥ ८२ ॥ दासेरांस्तान् कुमारांश्चा-ऽगणयन् सुभट्टौ च तौ॥ कुण्डिकातैलसङ्क्रान्त--चक्रान्तयस्तलोचनः॥ ८३ ।। लक्ष्ये निरुद्धया दृष्टया, ज्ञात्वा चक्राष्टकान्तरम् ॥ तदेकाग्रमनाः सद्यः, कुमारो व्यमुचच्छरम् ॥ ८४ ॥ [ युग्मम् ] प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि | Pसः॥ क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ॥ ८५ ॥ ततो लोकैः प्रमुदितै-चके जयजयारवः ॥ तदैकाग्र्यकरस्थैय-लघुह| स्तत्वशंसिभिः ॥ ८६ ॥ तदा निर्वृत्तिकन्याऽपि, मुखे तस्य प्रमोदभाक ॥ कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्रजम् ।। ८७॥ १ बाणम् । १ रूपेण कामदेवतुल्यम् । ३ दासीपुत्राः ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy