________________
| तत्कथासंप्रदायश्चायम्-- उत्तराध्य
उज्जयिन्यां पुरि स्नात्रो-द्याने नंदनसन्निभे ॥ चंडरुद्राभिधः सूरिः सगच्छः समवासरत्।। १॥ ऊनाधिकक्रियादोषान् , स्वगयनस्त्रम् ॥१५॥
* च्छीयतपस्विनाम् । दर्श दर्श स चाकुप्यत्, प्रकृत्याप्यतिरोषणः ॥२॥ भूयसां वारणं ह्येषां, मयैकेनातिदुष्करम्।। परं रोषातिरेका
न्मे, स्वहितं न हि जायते ॥३॥ ध्यात्वेति सूरिरेकांते, तस्थौ सयानहेतवे । तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ॥४॥
[युग्मम् ] इतश्चोज्जयिनीवासी, व्यवहारिसुतो युवा ॥ आगाकुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् । ५॥ साधन दृष्ट्वा परीहासद पूर्वकं तान् प्रणम्य च ॥ सोऽवादीद्भगवंतो मे, धर्म ब्रूत सुखाकरम् ॥ ६ ॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे । ततो
भूयः स निग्रंथान , सोपहासमभाषत ॥ ७ ॥ दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् ॥ तत् प्रसद्य भवांभोधि-तारकं दत्त | |मे व्रतम् ॥ ८॥ धूर्तः प्रतारयत्यसा-नर्मवाक्यैर्मुहुर्मुहुः ॥ तद्धृप्यतामसौ सम्यक्, चिंतयित्वेति ते जगुः ॥ ९॥ गुरोरधीना न | वयं, स्वयं दीक्षादि दद्महे ।। तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ॥ १०॥ श्रुत्वेति सवयस्योऽथ, सोच जमूरिसन्निधौ ॥
अब्रवीत्तं च वंदित्वा, सोपहासं कृतांजलिः ॥ ११॥ गृहव्यापारतो भग्नो, लग्नोसि त्वत्पदाब्ज्योः ॥ तत्प्रवाजय मां स्वामि| स्तिष्ठामि ससुखं यथा ॥ १२ ॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः ॥ मूरिजगी व्रतेच्छुश्चे-तदा भस्मानय दुतम् ॥ १३ ॥
ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् ॥ तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा दो व्रतम् ॥ १४ ॥ तद्विलोक्य विषण्णास्त-द्वय| स्वास्तमथाभ्यधुः॥ मित्र! सद्यः पलायख, धाम यामो वयं यथा ॥ १५ ॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् ।। कथं गच्छाम्यहं गेहं स्ववाचा स्वीकृतवतः ॥ १३ ॥ प्रमादसंगतेनापि, या वाक् प्रोक्ता मनखिना सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा