________________
उत्तराध्य
मनसूत्रम् ॥१४॥
मूलम् - मा गलिअस्सुव्व कसं, वयणमिच्छे पुणो पुणो । कसंव दमाइणे, पावगं परिवज्जए॥ १२ ॥
व्याख्या - मा निषेधे गल्यश्व इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरुणामिच्छेदभिलषेत् | पुनः पुनर्वारं वारं । अयं भावः - यथा गलिरश्वः कशाप्रहारं विना न प्रवर्त्तते निवर्त्तते वा, नैवं सुशिष्येणापि प्रवृत्तिनिवृत्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि' - कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्व इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवर्जयेत् सर्वप्रकारै स्त्यजेत् उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः - यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयास्पृष्ट एव तदाशयानुरूपं चेष्टते तथा सुशिष्योऽप्याकाराद्यैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्त्तते, माभूद्गुरोर्वचनायास इति सूत्रार्थः || १२ | गल्याकीर्णकल्प शिष्ययोर्दोषगुणावाह
मूलम् - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा ।
चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयपि ॥ १३ ॥
व्याख्या - अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीलाः कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चंडं प्रकुर्वेति, प्रकर्षेण विदधतेि शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्त्तिनः लघु शीघ्रं दाक्ष्योपपेता अविलंबित का रित्वयुक्ताश्च भवंति, अत्र 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावाद्गुरुं किं पुनरनुत्कटकपायमिति, अत्रोदाहरणं चंडरुद्राचार्यशिष्यः,
अध्य० ॥१४॥