________________
उचराध्यबनरत्रम् ॥१३॥
जन्म?
॥१३॥
मूलम्-मा य चंडालिअं कासी, बहुअं मा य आलवे । कालेण य अहिजित्ता, तओ झाएज एगगो॥१०॥
व्याख्या--मा निषेधे, चः समुच्चये, चंडः क्रोधस्तद्वशादलीकमनृतभाषणं माकार्षीविधाः । लोभालीकाद्युपलक्षणं चैतत् । | तथा बहु एव बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्यायादिकार्यहानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठित्वा पृच्छाद्युपलक्षणं चैतत . ततोऽध्ययनाधनन्तरं ध्यायेच्चिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवमत्यादौ स्थित इति सूत्रार्थः ॥ १० ॥ इत्थमकार्यनिषेधः कार्यविधिश्चोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम्-आहच्च चंडालिअं कटु, न निण्हविज कयाइवि। कडं कडित्ति भासिज्जा, अकडं णो कडित्ति ॥११॥
व्याख्या-'आहच्च कदाचिचंडालीकं पूर्वोक्तं कृत्वा न निन्हुवीत मया न कृतमिति नापलपेत् , कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृतमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेव , मृषावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उज्जु भणइ ॥ तं तह आलोएज्जा, मायामयविष्पमुक्को उ ॥१॥” इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥ ११ ॥ अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्तव्ये इत्याशंकां निराकर्तुमाह