________________
उचराध्यवनस्त्रम् ॥२०२॥
२०२॥
तम् ॥ अवन्तीशो तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् । अगाद्वेण्णातट मूल-देवभूपं ननाम च ॥२५९॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्राम तमेव हि ॥२६॥
सोऽथ कार्पटिकोऽश्रौषी-बच्चन्द्रग्रासलक्षणात् ।। स्वमादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ॥२६१॥ ततः सोऽचिन्तयद्धि- | ां, यत्स्वप्नस्तादृशस्तदा ।। आवेदनेन मन्दानां, नीतो निष्फलतां मया ॥ २६२ ॥ तदद्यापि हि चेत्पीत्वा, गोरसं सरसं शये ॥
तदाहमीदृशं स्वप्नं, भूयः पश्यामि राज्यदम् ॥ २६३ ॥ इति ध्यायन राज्यलक्ष्मी, काङ्कन सोऽनिशमस्वपीत् ॥ न तु तं खप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ॥२६४॥ कदाप्यऽसौ कार्पटिकोऽपि पश्ये-स्वमं तमप्युत्कटभाग्ययोगात् । न तु प्रमादाच्च्युतमर्त्यजन्मा, लमेत भूयोऽपि जनो नरत्वम् ॥२६५ ॥ इति स्वप्नदृष्टान्तः षष्ठः ॥६॥ अथ 'चक्केति' पदसूचितो राधावेधदृष्टान्तस्तथाहि
अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् ।। नृपस्तनेन्द्रदत्ताहो, बभूवेन्द्र इव श्रिया ॥१॥ राज्ञस्तस्थाऽभवन् बढयो, वल्लभाः प्राणवल्लभाः ॥ सुता द्वाविंशतिस्तासा-मासन् पृथ्वीपतिप्रियाः ॥२॥ तांस्तु सर्वानपि नृपो, महोत्सवपुरस्सरम् ॥ कलाम्यासार्थममुच-कलाचार्यस्य सन्निधौ ॥३॥ स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्रीं मनोरमाम् ॥ उपयेमे तां च मन्त्री, दीर्घदीत्यशिक्षयत् ॥ ४॥ यदा गर्भसमुत्पत्ति-र्जायते तब हे सुते ! ॥ तदा दिनादिकं सर्व-मपि ज्ञाप्यं त्वया मम ॥ ५॥ प्रतिपेदे पितुर्वाणी, तथाऽमात्यमुताऽपि ताम् ॥ नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ॥ ६॥ बहुप्रियो भूप्रियंस्तां, सस्माराऽपि न कर्हिचित् ॥ भरिमार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम्॥७॥ अन्यदा तामृतस्नातां, ददर्श पृथिवीपतिः॥ वधूः कस्येयमित्यन्या,
1 मूर्खः । नृपः ।