SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ नया मन्त्रवासिताः॥ पुरिमध्येऽभ्रमन राज्य-योग्यं मयै तु नाऽऽनुवन् ॥ १९४ ॥ ततो बहिब्रमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रमुप्तउचराज्य 8 मपरावृत्त-च्छायं चम्पकसन्निधौ ॥ १९५ ॥ ततश्चके हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-धामरौ वीजनं तथा पनपत्रम् ॥ १९६ ॥ पुण्डरीक च तस्योद्भ, व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमदितै-जैनैश्चके जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौव॥१९८॥ स्कन्धेऽध्यारोपयत्स्वयम् ॥ प्रावीविशच नगरे, नागरैनिर्मितोत्सवे ॥१९८॥ राज्याभिषेकं तखाऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा |च देवता व्योनि , व्यक्तमेवमवोचत ॥ १९९ ॥ " देवतानां प्रभावेणा-वाप्तराज्यः कलानिधिः ॥ एष विक्रमराजाहो, राजा मान्योऽखिलैजनैः ॥ २००॥ यस्त्वस्य भूपतेराबा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवालिपम् ॥ १.१॥" तन्निशम्याऽखिलं राज-मण्डलं मीतविस्मितम् ॥ तस्याऽवश्यमभूवश्य, सौख्यं धर्मवतो यथा ॥ २०२॥ सोऽथ भूपो व्यधात्प्रीति, प्राभूतप्रेषणादिना ॥ विचारधवलाख्येनो-जयनीस्वामिना समम् ॥ २०३॥ इतश्च-देवदत्ताऽपि तां प्रेक्ष्य, मूलदेव विडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पिंतविग्रहा ॥ २०४ ॥रेम ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ २०५ ॥ अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ॥२०६ ॥ इत्यूचे च प्रभो! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ २०७॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥२०८ ॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावातां, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः , छन्नम् । २ गजः । । वृक्षम् । । कोपावेशेन कम्पितशरीरा । RECORGEOGRAMSAR
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy