SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ राज्य मनसूत्रम् ॥१९६॥ | वेण्णातटे त्वमागच्छे – नमाऽऽख्याहि निजं च मे ॥ १६२ ॥ अहं निर्घृणशर्मेति, जनैर्दत्तापराभिधः || द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः ॥ १६३ ॥ प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थं तत्र चांगमत् ।। १६४ || भ्रमं भ्रमं तत्र लेमे, कुल्माषानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ॥ १३५ ॥ अत्रान्तरे तपस्तेज स्तरंणि शान्तचेतसम् । मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ॥ १६६ ॥ समीक्ष्य मुदितो मूल देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः समयेऽस्मिनसौ मुनिः ॥ १६७ ॥ [ युग्मम् ] यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशदुमः ॥ तथा र त्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ।। १६८ ।। ग्रामेऽस्मिन्कृपणे किश्चि- दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् ।। १६९ ।। इमान् विशुद्धान् कुल्माषां - स्वद्दत्वाऽस्मै महात्मने || विवेकशाखिनं कुर्वे - ऽचिरात्स फलमात्मनः ॥ १७० ॥ ध्यात्वेत्युद्गतरोमाश्चः, प्रमोदाश्रुविमिश्रदृक् ॥ भक्तिपूर्व मूलदेवो, मुनिं नत्वैवमब्रवीत् ॥ १७१ ॥ व्यसनाम्भोधिपतिते, | मयि कृत्वा कृपां प्रभो ! ॥ एतानादत्स्व कुल्माषा - माश्च निस्तारय द्रुतम् ॥ १७२ ॥ द्रव्यादिशुद्धिं विज्ञाय ततस्तानाददे यतिः ॥ ततः प्रमुदितो मूल देव एवमवोचत ।। १७३ ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधुपारणे । तदा च वीक्ष्य तद्भक्ति, हृष्टा काऽपि सुरीत्यवक् ॥ १७४ ॥ वत्स ! त्वया कृतं साधु साधुभक्ति वितन्वता ॥ ततः श्लोकोत्तरार्धेन, यतेऽभीष्टं वृणुष्व तत् | ॥ १७५ ॥ मूलदेवोऽपि तां देवी - मवादीन्मुदितस्ततः ।। देहि वेश्यां देवदत्तां, राज्यश्चेभसहस्रयुक् ॥ १७६ ॥ देव्युवाचाऽचि रादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः || १७७ ॥ भिक्षां तत्राऽपरां प्राप्य, शुक्त्वा च स पुरो १ मूलदेवः | २ तरणिः सूर्यः । ३ कल्पवृक्षः । 1964-6*3-30 अ-३ ॥१९६॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy