________________
उचराध्यवनस्त्रम्
CिABAR
॥ १५॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्काह-जातिस्तत्र समाययौ ॥ १४६ ॥ तुष्टस्ततोऽवदन्मूल-देवस्तमिति सादरम् ॥ कियड्रंक च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ॥ १४७ ।। द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं, अहि व त्वं ममिष्यसि ? ॥ १४८ ॥ धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाटवीम् ॥ १४९ ॥ तौ व्रजन्तौ वने मध्यं-दिने परवलमाप्नुताम् ।। क्षणं विश्रम्यतामत्रे-त्यूचे | तत्रापरं द्विजः ॥ १५॥ ततः प्रक्षाल्य वदन-पाणिपादादि धूर्तराट् ॥ द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम् ॥ १५१ ॥ विप्रस्तु स्थगिकामध्या-सक्तूनाऽऽकृष्य वारिणा ॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥ १५२ ॥ धूर्तो दध्यौ क्षुधार्तत्वा-गोज्यं नाऽऽदावऽदान्मम ॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ॥ १५३ ॥ विप्रस्तु मार्गमित्रायाऽप्यस्मै नो किञ्चिदप्यदात् ॥ याचको हि स्वयं प्रायो-ऽन्यस्मै दातुं न शक्नुयात् ॥ १५४ ॥ विप्रेऽथ स्थगिका बद्धा, पुरतः प्रस्थिते सति ॥ धूर्तेशोऽनुव्रजन् दध्या-चपराह्ने प्रदास्यति ॥ १५५ ॥ द्विजस्तथैव सायावे-ऽप्यभुक्ताऽस्मै तु नो
ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥ १५६ ॥ पुरो यान्तौ च तौ रात्रौ, जातायां वटसन्निधौ ॥ मार्ग मुक्त्वा || सुषुपतुः, प्रभाते च प्रचेलतुः॥ १५७ ॥ जाते मध्यन्दिने प्राग्व-द्विप्रो भुक्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः
पुरतोऽचलत् ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः ॥ तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥ १५९ ॥ तत्रा| प्यहि द्विजो नादा-तीर्णेऽण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोयं, मम चायं व्रजामि तत् ॥ १६० ॥ मूलदेवोऽभ्यधाद्भट्ट, त्वत्साहाय्यादियं मया ॥ वीर्णा महाटवी तुम्ब-महिम्नेव महानदी ॥ १६१ ॥ कार्योत्पत्तौ ततो मूल-देवनाम्नो ममान्तिके ॥