________________
उपराष्यबनपुत्रम् ॥१९२॥
अथोचे देवदत्तां तन्माता कैतव सेवधिम् ।। कितवं मूलदेवाहं निर्द्रव्यं च नन्दने ! ॥ ९६ ॥ भूरिविचप्रदे नित्य - मचले निश्चला भव ॥ एकत्र कोशे द्वौ खड्डौ, न हि मातः कदाचन ॥ ९७ ॥ देवदत्ताऽब्रवीन्मातः !, केवलं धनरागिणी ॥ नास्म्यहं किन्तु मे भूयान् प्रतिबन्धो गुणोपरि ॥ ९८ ॥ क्रोधाध्माताऽवदन्माता, धूर्चे स्युस्तत्र के गुणाः १ ॥ देवदत्ता ततोऽवादी- चद्गु णाक्षिप्तमानसा ।। ९९ ।। दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः । दाता विशेषविचायं तत्रैवाऽमुं जहाम्यहम् ॥ १०० ॥ ततः सा कुट्टिनी कोपा - विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिषोधयितुं नैकान् दृष्टान्तानित्यदीदृशत् ॥ १०१ ॥ सा याव केऽर्थितेऽदात्तं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षौ च तत्प्रान्तं नीरमासवे ॥ १०२ ॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत । इदं या प्रियस्तेऽसौ तादृक् तं मुश्च तदद्भुतम् ॥ १०३ ॥ देवदत्ताऽभ्यधान्मातः !, परीक्षामविधाय किम् । तमेतत्सममाख्यासि, मूर्खो मणिमिवोपलम् ॥ १०४ ॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इक्षून् प्रार्थयितुं दासीं, प्राहिणोदचलान्तिके ॥ १०५ ॥ | देवदत्ता याचते त्वा-मिक्षूनिति तयोदितः ॥ इक्षुभिः शकटं भृत्वा ऽचलः प्रेषीत्प्रमोदतः ।। १०६ ।। तद्दृष्ट्वाऽक्काऽवदत्पश्याऽचलस्यौदार्यमद्भुतम् ॥ प्रैषीन्मानातिगानिक्षून्, कल्पवृक्ष इवाशु यः ॥ १०७ ॥ ततः सुता जगौ मात - यद्यहं स्यां करेणुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥ १०८ ॥ अत्रैवार्थे मूलदेवोऽप्यादेष्टव्योभुजिष्यया ॥ द्वयोरपि तयोर्मात- विशेषो | ज्ञायते यथा ॥ १०९ ॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् || साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ ११० ॥ ततस्स पञ्चपानिक्षू - नादायापास्य तस्वचम् | मुक्त्वा मूलाग्रपर्वाणि, द्व्यगुलागण्डिका व्यधात् ॥ १११ ॥ कर्पूरवासितास्ताव,
१ मदीराबाम् । दाखा ।
॥ १९२॥