________________
उचराज्ययनसूत्रम् ॥१९०॥
गुणैरेव तादृशैः ॥ ६३ ॥ तत्ते स्वाभाविकं रूपं द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा कृपां तन्मे प्रदर्शय ॥ ६४ ॥ इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिकां रूप-विपर्ययकरीं मुखात् || ६५ ।। नवयौवनलावण्य - मञ्जुलं स्मरजित्वरम् || आविश्वक्रे निजं रूपं, जगज्जनमनोहरम् ।। ६६ ।। [ युग्मम् ] ततस्तं दृचकोरैक- चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोलसद्रोम - हर्षोच्चैः सा विसिष्मिये ॥ ६७ ॥ प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यङ्गमात्मना ॥ ६८ ॥ अथ द्वावपि तौ स्नात्वा, व्यधतां सह भोजनम् || देवदृष्ये ततो देव - दत्तादत्ते स पर्यधात् ॥ ६९ ॥ ततो विदग्धगोष्ठीं तौ, क्षणं रहसि चक्रतुः । मूलदेवं तदा देवदत्तेनमवदन्मुदा ॥ ७० ॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः ॥ ७१ ॥ यतः - " नयणेहिं को न दीसह, केण समाणं न होंति उल्लावा || हिअयाणंदं जं पुण, जणय तं माणुस विरलं ।। ७२ ।” किश्व - " भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥ ७३ ॥ ये तु मन्दौरवद्रूप - वन्तः सारगुणान्विताः । ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ॥ ७४ ॥” नाथामि तदहं नाथ !, नाथ कार्या विचारणा । यथा स्थितोऽसि मच्चिचे, तथा स्थेयं ममालये ॥ ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि । प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ॥ ७६ ॥ सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने || अर्थमात्रैषिणां वेश्या - जनानां तु विशेषतः ॥ ७७ ॥ गुणानुरागणिका, यदि स्वान्निर्धने रता । तदा छुपार्जनाभावात्सीदेचस्याः कुलं सदा ॥ ७८ ॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्याद्गुणाः किन्तु निबन्धनम् ॥ ७९ ॥
१ इन्द्रधनुष्यवत् । २ कल्पवृक्षवत् । ३ याचामि । ४ गृहे । ५ कारणम् ।
अ ०३
||॥ १९०॥