________________
उचराध्य
बनमत्रम्
PEECG
१८८
॥१८८॥
SHRESUSUBHASAS
P॥३०॥" अथैको वैणिकस्तत्रा-ऽऽययौ वीणाविशारदः॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥३१॥ तामाकर्ण्य प्रमु| दिता, देवदत्तैवमब्रवीत् ।। साधु साधु त्वया वीणा, वादिता वरवैणिक ! ॥ ३२ ॥ स्मित्वाऽथ वामनःप्रोचे-ऽवन्तीलोकोऽखिलोप्यहो ॥ शुभाशुभविभाग द्राग, वेत्ति कामं विचक्षणः ॥ ३३ ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ॥ ३४ ॥ सोऽवादीकिमपि न्यूनं, वर्तते न भवादृशाम् ॥ किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च गर्भिणी ॥ ३५ ॥ विद्वन् ! कथमिदं शेय-मित्युक्ते देवदत्तया ॥ सोऽप्येतदर्शयामीति, वदन वीणामुपाददे ॥३६ ॥ तन्त्र्याः केशं दृषत्खण्डं, वंशाच्चाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ॥३७॥ व्यक्तग्रामस्वरां ग्राम-रागसङ्गममञ्जुलाम्॥
अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ॥ ३८ ॥ मजुघोषवतीं घोष-वतीमाकर्ण्य तां स्यात् ।। देवदत्ता सतवासी-परतन्त्र 5 मना भृशम् ॥३९॥ [युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्विणाक्कणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ॥४०॥
देवदत्ता ततः स्नेहो-दश्चद्रोमोद्गमाऽवदत् ।। अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥४१॥ विपञ्चीवादने दक्षा, वाणी| तुम्बुरुनारदाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥ ४२ ॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ।। ४३ ॥ धूर्त्ताधिपोऽभ्यधानाई, सम्यग्जानामि वल्लंकीम् । अस्ति किन्तु दिशि प्राच्यां, पा. टलीपुत्रपचनम् ॥४४॥ तत्र विक्रमसेनाहः, कलाचार्योऽस्ति धीनिधिः।। मूलदेवोऽहश्च किश्चि-द्वीणां विद्वस्तदाश्रयात् ॥४५॥ विपश्चीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः॥ ४६ ॥ नाट्याचार्योऽथ तत्राऽऽगा
, पाषाणखण्डम् । २ मनोहरशब्दवतीम् ।। वीणाम् । : सपरिवारा । ५ हस्तिनी । ६ वीणावादने । • वीणाम् ।
++COM