________________
कञ्चुका ॥ देवदत्ताऽभवद्भरि-सुधापूरैरिवाऽऽर्द्रिता ॥ १५॥ गीतेन तेन हृल्लोहा-कर्षायस्कान्तबन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा चराध्य
लवण्य तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्वासौ, गीतिरस्थातिवन्धुरा ॥ तद्गाताऽसौ न सामान्यो, नरः किन्तु नरोत्तमः॥१७॥3 वनसत्रम्
IPRcom meon ध्यात्वेति चेटिकामेकां, सा प्रेषीतं समीक्षितुम् ।। साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥ १८॥ गन्धर्वो वामनाकारः,
M कोऽपि स्वामिनि ! गायति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥ १९ ॥ तदाकर्ण्य तमाह्वातुं, प्रैषीन्माधविकाभिधाम् ॥ कुन्जां। al दासी देवदत्ता, साऽपि गत्वेति तं जगौ ॥२०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मागच्छामः |
निकेतनम् ॥ २१॥ मूलदेवोऽवदत्कुब्जे !, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् | ला ॥ २२ ॥ यदुक्तं-"या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिका
न विशिष्टाः ॥ २३ ॥" तेनेत्युक्ताऽपि सा चाटु-शतैरावर्त्य तं भृशम् ॥ सनिर्बन्धं करे धृत्वा-चीचलनिलयं प्रति ॥२४॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाद्विद्या-प्रयोगाच्च व्यधादृजुम् ॥ २५ ॥ ततस्सविस्मया. ऽऽनन्दा, सा तं प्रावीविशद्हे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६॥ वामनस्यापि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुले, गौरवात्तं न्यवीविशत् ॥ २७ ॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्त तच्चेष्टिते
देव-दत्ता देवं विवेद तम् ॥ २८ ॥ वैदग्ध्यगर्भेरालापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, स्ववशं विदधे द्रुतम् 4॥२९॥ यतः-"अणुणयकुसलं परिहा-सपेसलं लडहवाणिदुल्ललिअं॥ आलवर्णपि हुच्छेआ-ण कम्मणं किं च मूलीहिं ?
, अयस्कान्तः 'लोहचुम्बक' इति भा० । २ कस्तुरिकावत् । ३-५ गृहम् । १ सेविता इत्यर्थः । ६ आसने ।