________________
अब
उचराध्यपनसूत्रम् ॥१८॥
१८॥
वाच्यमिति चिन्तयन् ॥३॥ विश्वासं खीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधानमिव भोगीन्द्र-स्तं रत्नौध ररक्ष सः॥४॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् ।। अनेकधनकोटीनां, स्वामिनो धनदोपमाः ॥५॥ ते च स्वीयेषु सौधेषु, पताका कोटिसम्मिताः॥ स्वैरमुत्तम्भयामामु-नानावर्णविराजिताः॥६॥ वेल्लद्भिस्तै जैस्तेषां, सुधाशुद्धा बहाः ॥ हिमाद्रिशिखराणीव, | सन्ध्यात्रैः पवनेरितः॥७॥ धनवस्तु ध्वजं नैवो-त्तम्भयामास कहिंचित् ॥ न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ॥ ८ ॥
ततो महत्वमिच्छन्तः, सुत्तास्तवेत्यचिन्तयन् ॥ रोवचेष्टते रन-व्रजे सत्यपि नः पिता ॥९॥ रनविक्रयणोत्पन्न-धनकोटीमितान| सौ ॥ ध्वजानपि निजे गेहे, नवोचम्भयति कचित् ॥१०॥ तदयं जातयामश्चे-द्याति कापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ ११ ॥ व्यापारार्थमथान्येधु-वृद्ध देशान्तरं गते ॥ प्रारेभिरे ते रत्नानां, विक्रयं प्रीतचेतसः ॥ १२ ॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः॥ रत्नानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ॥१३॥ तेन रत्नौघलामेन, हृष्टास्ते वणि| जां व्रजाः॥ जग्मुः पारसकूलादी-निजदेशान द्रुतं द्रुतम् ॥ १४ ॥ रत्नविक्रयसञ्जात-वित्तकोटिमितान् ध्वजान ॥ सोत्सवं | तत्सुताः स्वीय-सौधेऽध्यारोपयंस्ततः॥ १५॥ वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौषविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानसे ॥ १६ ॥ इत्यूचे च सुतान् कोप-कम्प्रकायोऽरुणेक्षणः ।। रे लक्ष्मीकन्दकूद्दालाः!, यूयं निर्यात मगृहात् ॥ १७॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं, युष्माभिर्नान्यथा पुनः॥ १८॥ इति तेनोदितास्तस्य, तनया विनयान्विताः । प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ॥ १९ ॥ अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि,
। उरगः । २ सुधा 'खडी' इति भा० । । गृहे ।
ARA
कराज