SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उचराध्यपनपत्रम् ॥१८४॥ C | इति प्रोवाच तद्भाव-मविदत्रिय भूधः॥८॥राज्यमारपरिश्रान्तो, राज्यं ते दित्सुरम्यहम् ॥ वकीयकुलमर्यादा, नोल्लङ्घयितु अम. मुत्सहे ॥९अतिक्रामन् हि मर्यादा-माचीणी पूर्वपूरुषैः॥ शलभोमिमिवोल्लक-मानो विपदमश्नुते ॥१०॥ कुप्येत्कुलाधिदेवी ॥१८॥ | च, मर्यादोल्लबकाय तत् ॥ समाकर्णय तां राज्य-सुखभूरुहसारणीम् ॥११ । उल्लल्यानुक्रमं राज्य-मभिकाङ्क्षति यः सुतः॥ जनको वा खयं यस्मै, राज्यं दातुं समीहते ॥ १२॥ स चेत्सुतो जयेचातं, छूते राज्यं तदाऽश्नुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां | || त्वया ॥ १३ ॥ अस्यां समायां स्तम्भानां, वर्ततेऽष्टोचरं शतम् ॥ अश्रयोऽपि प्रतिस्तम्भ, वर्तन्तेऽष्टोत्तरं शतम् ॥ १४ ॥ तत्रैकेनैव 8 दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टोत्तरशतं वारान् , छूते जयति मां भवान् ॥ १५ ॥ अश्रिरेका तदा स्तम्भ-सैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां, जये स्तम्भो भवेज्जितः ॥ १६ ॥ इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि, सत्वरं नात्र संशयः॥ १७॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकुदप्यन्य-स्त्रीसङ्गे ब्रह्मचर्यवत् ॥ १८ ॥ इत्या-15 5 कर्ण्य पितुर्वाक्यं, भूपरित्यचिन्तयत् ॥ द्यूताचेल्लभ्यते राज्यं, को हन्याजनकं तदा ? ॥१९॥ ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां X| प्रचक्रमे । विजित्य निखिलान् स्तम्भा- तु राज्यमविन्दत ॥ २० ॥ सुरानुभावादथवा स सर्वान, स्तम्मान् विजित्यापि लमेत | राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्नरत्वम् ॥२१॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ ४॥ अथ रत्नदृष्टान्तः, तथाहि पुरे धनसमृद्धेऽभू-द्धनदाह्रो वणिग् जरी ॥ प्रभूतरनकोटीना, प्रभुः प्रभुरिवाम्भसाम् ॥१॥ उदारं व्यवहारं च, कारं कारं सदापि सः॥ उपार्जितैरपि धन-यंत्राद्रवान्युपाददे ॥२॥धनदा खधनं तच्च, नैव कस्याप्यवोचत ॥ आयुर्वित्तं गृहच्छिद्रं, नो | 1 नृपः । . पतः । ३ अम्भसा प्रभुः धनदः । ATEGACARA
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy