________________
+
रचराध्यबनरत्रम् ॥१८३॥
+
कुलत्थशणचीनकाः॥ युगन्धरीमसूरौ चा-ऽतसीकलमषष्टिकाः ॥ ६॥” इत्यादीन सस्यराशीस्तान् , भरतक्षेत्रमध्यगान् ॥ सम्मील्य रचयेत्कोऽपि, पुञ्जमभ्रलिहं सुरः॥ ७॥ सर्वपप्रथमेकं च, तत्र क्षिप्त्वा करम्बयेत् ॥ तान् सर्षपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ।
G॥१८॥ ॥८॥ जरती सा जराकम्प्र-करा शूर्पकधारिणी ॥ विगलल्लोचना भूरि-विलोलवलिवल्लरी ॥९॥ विविच्य धान्यराशीस्तान् , पिण्डितानखिलानपि ॥ तैरेव सर्वपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ॥ १०॥ [युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि-द्विवेचये.
तानपि सर्षपान सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ॥ ११ ॥ इति धान्यदृष्टान्तस्तृतीयः॥३॥ | अथ द्यूतदृष्टान्ता, तथाहि
अभृत्यूरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाता-यौवराज्यः सुतोभवत् ॥१॥ स चेत्यालोचयामासाऽन्यदा मित्रादिमिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ॥२॥ आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथश्चन ॥ राज्ञे व्यज्ञपत्सोऽपि, तनिशम्येत्यचिन्तयत् ॥ ३ ॥ असम्भाव्यमिदं तात-मपि यन्मारयेत्सुतः ॥ शशाङ्क: शोषयेद्वा- िमिति हि श्रद्दधीत का?॥४॥ लोभावेशाकुलो यद्वा, कुग्रहास्तवजनः ॥ नैव कार्यमकार्य वा, निवौडो वेति किञ्चन ॥५॥ यदुक्तं"नोवेक्खई कुलजाई, पेम्म मुकयं च गणइ न य अयसं ॥ लुद्धो कुणइ अकज्जं, मारइ पहु बंधु मित्तंपि ॥ ६॥" तदेष पुत्रो या| वन्मां, लोभग्रस्तो न मारयेत् ॥ तावत्स्वरक्षणोपायं, सद्यः कश्चित्करोम्यहम् ॥७॥ विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् ॥
. मीश्रीक्रियेत । २ वृद्धा । ३ 'सुपटुं' इति भा० । १ नोपेक्षति कुलजाती प्रेमं सुकृतं च गणति न च अपयशः । लुब्धः करोति भकार्य माज्यंते प्रभुः बन्धुः मित्रमपि ।
+
+
कार