SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ + उचराध्यबनसूत्रम् ॥१८॥ तिलोत्पन्न-तिलमेयानि चापरात् ।। एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः॥१५०॥ तुर्याच्चैकदिनोत्पन्नान्, प्रतिमासं किशोरकान् ॥ शालींश्च पञ्चमात्कोष्ठा-गारपूरणसम्मितान् ॥ १५१ ॥ इत्यादाय श्रियं तेभ्यो-ऽपरादपि जनवजात ॥ द्रव्यमादातुमकरोच्चाणक्यो | यन्त्रपाशकान् ॥ १५२॥ केप्याहुदेवतादचा, देवनास्तस्य तेऽभवन् ॥ ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययौ ॥ १५३ ॥ इत्यूचे च जनान् यो हि, बूते जयति मां जनः॥ तस्मै ददामि नियतं, दीनारानखिलानमन् ॥ १५४ ॥ जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् ॥ तच्छुत्वाऽऽरेभिरे रन्तुं, लुब्धास्तेन समं जनाः ॥ १५५॥ द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलम्भूष्णुरभूत्तेषां, पाशकानां प्रभावतः॥ १५६ ॥ पाशकैः सम्पदापाच-स्तैर्निजेच्छानुवर्चिभिः॥ विजित्य लोकांश्चाणक्या, स्वर्णैः कोशमपूरयत् ॥ १५७ ॥ तं तु निर्जेतुमपरा-पुरादेरागता अपि।। स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥१५८॥ दिव्या| नुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥ १५९ ॥ इति । पाशकदृष्टान्तो द्वितीयः॥२॥ अथ धान्यदृष्टान्त: तथाहि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः॥ द्वात्रिंशता सहस्रैः स-द्विषयैः शोभितेऽमितः॥१॥ अनेकनगरग्राम-पत्तना. दिविराजिते ॥ प्रशस्तायां मेघवृष्टी, सम्पन्नायां धनागमे ॥ २॥ सर्वधान्येषु चोमेष, कृषिदक्षः कृषीवलैः ॥ तनिष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ॥ ३॥ बहुमेदानि धान्यानि, प्रधानानि भवन्ति हि॥ समग्रजन्तुजीवातु-कल्पानि सरसानि च ॥४॥ [चतुर्मिः कलापकम् ] तथाहि-"शालिगोधूमचनक-मुद्माषतिलाणुकाः॥ राजमाषयवव्रीहि-कलायचंगुकोद्रवाः॥५॥ मकुष्टकाढकीवल्ल , मघुवत्सतरान् ।२ पाशकाः । । मन्त्री । " प्राणी । ५ सद्देशैः । ६ 'खेडुत' इति भा०
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy