SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॐ चराज्यबनवत्रम् ॥२८॥ अध्या १८१ ॐMMARG विदण्डं धातुरके द्वे, चीवरे स्वर्णकण्डिका ॥ वशंवदो मे भूमांथ, तन्मे वादय होलकम् ॥ १३५ ॥ तनिशम्याऽपराः सीधु-पानान्धो मदमुबहन् । कस्याप्यनुक्का खां लक्ष्मी, प्रादुर्वमिदं जगौ ॥१५॥ योजनानां दशशती, बजतो मचदन्तिनः ॥ पदे पदे ददे लक्षं, तन्मे वादय होलकम् ॥ १३७ ॥ ततोऽहम्पूर्विकापूर्व-मन्योप्येवमवोचत ॥ उसे तिलाढेके बाढ-गद्गते फलितेऽपि च ॥१३८ ॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मद्हे । सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ।। १३९ ॥ [ युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसञ्जात-नवनीतेनै भूयसा ॥१४०॥ पालीमहं निवनामि, तन्मे वादय होल कम् ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ १४१ ॥ [ युग्मम् ] एकाहजातजात्याच-किशोरस्कन्धकेसरैः । वेष्टयेऽदः पुरं | विष्वक, तन्मे वादय होलकम् ॥१४२॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिनछिनरोहिके ॥१४३॥ एतद्रत्नद्वयपते-स्तन्मे वादय होलकम् ।। अन्यस्त्वेवं जगौ द्रव्य-सहस्त्रं मम विद्यते ॥ १४४ ॥ सदा चन्दनलितोह-मप्रवासी ऋणोज्झितः॥ अस्मि स्ववशभार्यश्च, तन्मे वादय होलकम् ॥ १४५ ॥ इत्थं ते मदिरापान-विशाः सम्पदोऽखिलाः ॥ प्रादुश्चक्रुर्मद्यपो हि, सद्भावं द्राक् प्रकाशयेत् ॥ १४६ ॥ यता-"कुविस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्स्स मरंतस्स य, सम्भावा पायडा होंति ॥ १४७॥" ततश्च तेषां चाणक्या, श्रियं विज्ञाय धीनिधिः ॥ तेभ्यः स्वास्थ्यं प्रपन्नेम्यो, यथाह धनमग्रहीत् ॥ १४८ ॥ तथा हि-सामयोनेः शुभगते-रेकयोजनयायिनः॥ पदमेयानि दीनार-लक्षाण्यायादुपाददे ।। १४९ ॥ प्ररूढेक । प्रस्तद्वयं कुछवः, चतुर्भिः कुरवैः प्रस्थः, प्रस्यैश्चतुर्भिराढकः । २ पर्वतनदीवेगे । । म्रक्षणेन । ४ परतन्त्राः । ५ 'कुपितस्य भातुरस्य च व्यशनप्राप्तस्य रागरक्तख । मत्तस्य मरन्तस्य च सद्भावाः प्रकटा भवन्ति' ।।दीपस्य ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy