________________
उचराध्य पनपत्रम् ॥१८॥
| हि पाहि मां वत्स 1, कुरु काश्चित्प्रतिक्रियाम् ।। अन्यथाहं मरिष्यामि, नियतं व्यथयाऽनया ॥ ११९ ॥ ततो जालिका मन्त्रविज्ञाथ केति वादिनम् ॥ चाणक्योऽन्वशिषचन्द्र-गुप्तमेवं तदा शनैः ॥ १२०॥ पश्चान्मार्योऽप्यऽयं मौर्य, म्रियते स्वयमेव चेत् ।। तदोपेक्षस्व दक्षो हि, रक्षेत्को यान्तमामयम् ॥१२१ ॥ ("अन्यच"-)तुल्यार्थ तुल्यसामर्य, मर्मज्ञ व्यवसायिनम् ॥2 अर्धराज्यहरं मित्रं, यो न हन्यात्सहन्यते ॥ १२२ ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन सः॥ अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् ॥ १२३॥ ततः पर्वतकोर्वीशः, प्रपेदे नामशेषताम् ।। उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ॥१२४॥ तस राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूव चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ॥ १२५॥ तदा च केऽपि तद्राज्ये, चौर्य नन्दनरा व्यधुः ॥ अन्यमारक्षकं कश्चि-चाणक्योऽमार्गयत्ततः ॥ १२६ ॥ अगाच-नलदामाह-कुविन्दस्य गृहं भमन् ।। मत्कोटकॅबिलेवनि, क्षिपन्तं तं ददर्श च ॥ १२७ ॥ किं करोषीति चाणक्य-स्तमप्राक्षीच सादरम् ।। उन्मुखीभ्य सोत्कर्ष, कुविन्दो-दू प्येवमब्रवीत् ॥ १२८ ॥ दुष्टान्मत्कोटकानेतान् , मत्यूनोदेशदायिनः ॥ सान्वयान हन्तुमनलं, विलेषु प्रक्षिपाम्यहम् ।। १२९ ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोचमं च तम् । गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥१३० ॥ तस्मै पुराध्यक्षां च, चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विश्वासा-ऽखिलांचोरान् जघान तान् ॥ १३१ ॥ एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टके-2 न्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाट्यानजूहवत् ॥ १३२ ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्त-विवेकास्ते ततोऽभवन् ।। १३३ ॥ तेन्मत्तेषु नृत्यत्स्-स्पतत्सु च ॥ चाणक्योऽपिलीवचेष्टा-मनुतिष्ठभदोऽवदत् ॥१३४॥
, मधुना । २ युक्तम् ।। मरणम् । ४ तन्तुवायस्य । ५ मस्कोटक: 'मंकोडो' इति भा• । मदिरामदेननष्टविवेकाः । . मत्तचेष्टाम् ।