SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम् ।। ८६ ॥ बालकोऽपि तथैवाय-मलिहन परितः शनैः ॥ मध्य एव क्षिपन् पाणिं, | दाहमत्युग्रमासदत् ॥ ८७॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निबुद्धि-लादपि विशिष्यते | ॥ ८८॥ तच्छ्रुत्वा योषितोऽप्यस्याः, शस्था धीरिति चिन्तयन् ॥ चाणक्यो हिमवस्कूट-सनिवेशं ततो ययौ ॥ ८९ ॥ तत्र राजा P१७॥ ॥१७८॥ पर्वतका-भिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कासन साहायकं ततः ॥१०॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्स| मीहसे ॥ नन्दमुन्मूल्य तद्राज्यं, विभज्यादबहे तदा ।। ९१ ॥ मम बुद्धिबलं सैन्य-चलं च भवतोऽतुलं ॥ कार्यस्मिनिर्मिते विश्वतलाध्यतां लभतां सखे ॥१२॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः ॥ स चन्द्रगुप्तः प्रारेमे, नन्ददेशव साधनम् ॥१३॥ पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् ॥ विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ॥ ९४ ॥ तत्र वास्तूनि सम्प्रेक्ष-माणः सोऽथ त्रिदण्डिकः ॥ सकलापाः सप्त देव्यो-ऽपश्यदिन्द्रकुमारिकाः॥ ९५ ॥ अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य स ॥ मयता: कथमुत्थाप्या, विममर्शेति यावता ॥ ९६ ॥ तावत्तं पुररोधार्ताः, पप्रच्छुरिति नागराः॥ भगवन् ! पुररोधोऽयं, कदा खल्वपयास्थति ॥ ९७ ॥ ततः प्रोवाच चाणक्यो, यावदत्र भवन्त्यमः॥ देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ॥ ९८ ॥ पौरास्तेऽथ ततः स्थाना-चाः क्षिप्रमुदपाटयन् ॥ घूतः प्रतारिततां हि, नाकार्य किश्चिदङ्गिनाम् ॥ ९९॥ तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि ॥ पलायेतां द्रुतं तचा-ऽऽकयोचर्मुसदे जनः ॥१०॥ भूयो व्याघुख्य तौ क्षिप्र-मनहीष्टां च तत्पुरम् ॥ नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ॥१.१॥ प्रवर्धमानसैन्यादि-संयुतास्ते त्रयोऽप्यऽथ ॥ अवेष्ट पीडाम् । २ पश्चादायस्य । मनमान्न माला
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy