SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ -halbag बदलूत्रम् ॥ १७७॥ 99 हे बत्स ! त्वामहं यदा ॥ सादिनेऽवादिषं चिचे, किमचिन्ति त्वया तदा ॥ ७० ॥ चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा ॥ एतदेव विदन्त्यार्याः, सुन्दरं खलु न त्वहम् ॥ ७१ ॥ तदाकर्ण्यातिसन्तुष्ट - चाणक्यो ध्यातवानिति ॥ वशंवदः सदाप्येष, | भावी मम सदश्ववत् ॥ ७२ ॥ ध्यायन्तमिति चाणक्यं, व्रजन्तं पुरतो द्रुतम् ॥ चन्द्रगुप्तोऽब्रवीदार्य 1, क्षुधा मां बांधतेऽधिकम् ॥ ७३ ॥ ततञ्चन्द्रं बहिर्मुक्त्वा, मक्तार्थ चणकात्मजः । प्रति ग्रामं व्रजभेकं, भट्टं दृष्टेति पृष्टवान् ॥ ७४ ॥ ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधाल्लभ्यते भृशम् ॥ मयाप्यत्राधुना लेमे, दधिकूरकरम्बकः ।। ७५ ।। चाणक्योऽचिन्तयद्भक्त-कृते ग्रामे ब्रजाम्यइम् । एकाकी चन्द्रगुप्तस्तु, बहिस्तिष्ठति साम्प्रतम् ॥ ७६ ॥ तदयं मयि दूरस्थे, निर्दयैर्नन्दसादिभिः ॥ हनिष्यते चेचद्भावि, राज्यं मे खममेव हि ॥ ७७ ॥ तस्मादस्यैव भट्टस्यो - दरात्कष्ट्वा करम्बकम् ।। ददे तस्मै दुर्दशा हि, तरणीया यथा तथा ॥७८॥ ध्यात्वेति जठरं तस्य चाणक्योऽदारयत्खयम् || स्वार्थसिद्धयै परद्रोह-करान् धिग् धिग् नराधमान् ।। ७९ ।। ततो हत्वा स तद्भोज्यं चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी - तद्रसविपर्ययम् ॥ ८० ॥ मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिना त्यये ॥ अगात्तत्र च भिक्षायै, भ्राम्यन् रोरंगृहं ययौ ॥ ८१ ॥ तदा च तस्य गेहस्य, स्वामिन्या वृद्धपैकया ॥ बालानां भूयसामुष्णरब्बा भूपरिवेषिता ।। ८२ ।। तस्यामेकः शिशुर्बाद, क्षुधितः प्रक्षिपन् करम् ॥ दग्धाङ्गुली रुरोदोचैस्तं च वृद्धेत्यभाषत ॥ ८३ ॥ वेत्सि चाणक्यवनैव किञ्चित्वमपि मूढ रे ! ॥ तनिशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ॥ ८४ ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनंम् ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिदमभ्यधात् ॥ ८५ ॥ यथा हि पूर्व चाणक्यो, बाह्य देशमसाधयन् ॥ १ र २ दृष्टान्तः । अध्य०३ | ॥ १७७॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy