SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 5 अध्य० एचराध्य पनपत्रम् ॥१७॥ +E4 SHASKAR निरगानगराबहिः । अनेन भिक्षुणा किं स्या-दिति राज्ञाप्युपेक्षितः ॥ ३७॥ पित्रा प्रोक्तं स्मरन् विम्बा-न्तरितं राज्यमात्मनः॥ बिम्बभूतं नरं सोऽथ, प्राप्तुकामोऽभ्रमद्भुवि ॥ ३८ ॥ मयूरपोषकग्राम, सोऽथागानन्दभूपतेः॥ परिव्राजकवेषेण, भिक्षार्थ तत्र चाऽभ्रमत् ॥ ३९ ॥ तत्रासीद्वामणीपुत्र्याः, शंशभृत्पानदोहदः ॥ तं च पूरयितुं कोऽपि, नाऽशकन्मतिमन्तरा ॥ ४० ॥ तस्याऽपूर्ती च सा वाला, लतेव तनुतां दधौ ॥ स्त्रीणां हि दोहदापूर्ति-रव्याधिमरणं स्मृतम् ॥ ४१ ॥ तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः ॥ इत्यपृच्छंश्चन्द्रपान-दोहदः पूर्यते कथम् ॥ ४२ ॥ चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं 8 तस्या-स्त्वरितं पूरयाम्यमुम् ॥ ४३ ॥ अपूर्णदोहदा गर्भा-न्विता मा म्रियतामियम् ॥ तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे G॥४४॥ सच्छिद्रमथ चाणक्यो-ऽचीकरत्पटमण्डपम् ॥ तस्योर्द्धश्चाऽमुचच्छमं, नरं छिद्रपिधायकम् ॥ ४५ ॥ छिद्रस्य तस्य चाऽवस्ता-न्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्तिकीचन्द्र-स्तत्र प्रतिमितिं दधौ ॥ ४६॥ प्रतिविम्बं च तच्चान्द्र-मन्तर्वन्यो: प्रदर्य सः॥ पिवेत्युचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥४७॥ चन्द्रपानधिया स्थाल-पयः साऽपाद्यथा यथा ॥ पिदधे मण्डपछिद्र-मुपरिस्थस्तथा तथा ॥ ४८ ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां परिभ्रमन् ॥ चाणक्यो धातुवादाद्यैः, प्रारेमे द्रविणार्जनम् ॥४९॥ सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् ॥ तं च पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥ ५० ॥ ववृधे चन्द्रगुप्तोऽपि, वजनान् मोदयन् क्रमात् ।। औदार्यधैर्यगाम्भीर्यसौन्दर्यादिगुणैः समम् ॥५१॥ स बालकैः सह क्रीडां, कुर्वन्नुर्वीशवत्सदा ॥ ददौ प्रामादिकं तेषां, हयीकृत्यारुरोह तान् ॥५२॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ ॥ अपश्यचन्द्रगुप्तंच, क्रीडन्तं भूप , शशभृत् चन्द्रः । २ दुग्धभृतम् । । अर्धरात्रे । १ प्रतिबिम्बम् । ५ गर्भिण्याः। ५ धनार्जनम् । • हयः अश्वः । %
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy