________________
उपराज्य यनसूत्रम् ॥१७४॥
स्थानं, विशां दारिद्र्यमेव हि ॥ येन मातुर्गृहेप्येवं, प्रापदेषा पराभवम् ।। २१ । प्रकाशयन्ति धनिना - मसत्यामपि बन्धुताम् ॥ लखन्ते दुर्गतैर्लोकास्ताविक स्वजनैरपि ॥ २२ ॥ कलावान् कुलबान् दाता, यशस्वी रूप - वानपि ॥ विना श्रियं भवेन्मत्यों, निस्तेजाः क्षीणचन्द्रवत् ॥ २३ ॥ दौःस्थ्यनाशाय तत्किश्चि - दातारं प्रार्थये स्वयम् ॥ द्विजन्मनां हि याश्चैव, निधानं परमं मतम् || २४ || मम दौस्थ्यापनोदस्तु, भावी राज्ञैव केनचित् ॥ तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ॥ २५ ॥ ददाति नन्दभूपश्च विप्राणां बहुलं धनम् ।। विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ॥ २६ ॥ सोऽथ कार्तिक कायां, पूर्वन्यस्तासनव्रजाम् || गत्वाssस्थानसभां नन्द - नृपासनमशिश्रियत् ॥ २७ ॥ अथ राजसभां नन्द - महीपतिरुपागमत् । एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः ॥ २८ ॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ २९ ॥ ततश्चाणक्य मुर्खोश - दास्युवाचेति सादरम् ।। भगवन्निदमध्यास्व, द्वितीयं सिंहविष्टरंम् ॥ ३० ॥ स्थास्यत्यस्मि भासने मत्कमण्डलुरिति ब्रुवन् । स तत्र कुण्डिकां न्यास्य - भात्याक्षीदाद्यमासनम् ॥ ३१ ॥ तृतीयमेवं दण्डेन, चतुर्थश्वाक्षमालया ॥ पञ्चमं ब्रह्मसूत्रेर्णं, सोऽरुन्धर्मनाटयन् ॥ ३२ ॥ ततो दासी जगौ धाष्टर्थ - महो ! अस्य द्विजन्मनः । यदेवमुच्यमानोऽपि, न मुश्चत्याद्यमासनम् ॥ ३३ ॥ तद्विप्रेणाऽपि धृष्टेन किमनेनेति वादिनी । सा निहत्याणा वेगात् चाणक्यमुदतिष्ठिपत् ॥ ३४ ॥ तया दास्येति चाणक्यो-विक्षिप्तेः प्रज्वलन् क्रुधा ॥ समक्षं सर्वलोकाना – मनुं चक्रे प्रतिवम् ।। ३५ ।। " कोशैश्च भृत्यैश्च निबमूलं, पुत्रैश्च मित्रैश्व विवृद्धशाखम् । उत्पाव्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः || ३६ ||" प्रतिश्रुत्येति चाणक्यो,
१ र २ मनुष्यः । ३ बिना ४ पूर्णिमायाम् । ५ सिंहासनम् । ६ उपवीतेन । ७ नर्म हास्यम् । ८ पृष्टता ९ तिरस्कृतः । १० प्रतिशाम् ।
अध्य०३ ॥१७४॥