________________
॥१७॥
॥१७॥
गृहेष्वपि ॥ २३ ॥ एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ २४ ॥ इत्थं सर्वत्र मुक्त्वा च, मोक्ष्ये त्वत्सदने' पुनः ॥ इत्यूचानं च तं विप्र-मित्यूचे मेदिनीपतिः ॥ २५॥ तुष्टान्मतः किमेताव-याचसे ! त्वं महामते । । प्रत्यक्षात्कल्पवृक्षार्तिक, करीरं' कोऽपि याचते १ ॥ २६ ॥ त्वमेतद्याचमानो हि, याचाभ्यासत्र लज्जसे ॥ विडम्बना. प्रायमिदं-न त्वहं दातुमुत्सहे ॥ २७ ॥ तचं वृणुष्व देशाचं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाम्यणे, सुक्ष्व वैषयिकं सुखम् ॥ २८ ॥ विप्रः प्रोचे न देशायः, कार्य मम महीपते ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेदातुमीहसे ॥२९॥ तदाकर्ण्य नृपोऽध्यासीदहो! सत्यपि दातरि ॥ नादातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ॥ ३० ॥ ध्यात्वेति चक्री तद्वाचं, प्रतिप्रद्य स्वसबनि ।।
तस्मै भोजनदीनारौ, ददौ दिव्ये च चीवरें ॥३१॥ ततः प्रतिगृहं विप्रो, भुञ्जानोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, न प्रापा. PIपारसमनः ॥ ३२॥ तहिक भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमाप्नुयात् ॥ ३३ ॥ दिव्यानु
भावाधदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्वान तु धर्महीनः, पुनर्नरत्वं लभते प्रमादी ॥ ३४ ॥ इति चोल्ल
कष्टान्तः प्रथमः॥१॥ अथ पाशकहष्टान्त:-' Fl तथाहि गोल्लविषये, प्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विप्रोऽभूच्चणकाहयः ॥१॥ अन्यदा तद्गृहे तस्थु-ओनिनः ४ केपि साधवः ॥ तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ॥२॥ जातमात्रं च तं बालं, मुनिभ्योऽनमयद्विजः ॥ हे भदन्ताः! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥३॥ ततस्ते मुनयः प्रोचुनालोऽयं भविता नृपः ॥ तच्छुत्वा चणको भूरि-विषण्णो
। गृहे । २ 'केरडो' इति भा० । । वने । ४ गृहस्य ।
सरुन्त
HTS