________________
उत्तराध्ययनस्त्रम् ॥१६६॥
अध्य०२ १६॥
CARSHANKA
मोहसमन्वितम् ॥ उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्मनः॥१६१॥ किश्च-"संकेत दिवपेमा, विसयपसत्तासमत्तकत्तत्वा ।। अणहीणमणुअकजा, नरभवमसुई न इंति सुरा ।। १६२ ॥ चत्तारि पंच जोअण-सयाई गंधो उ मणुअलोगस्स ॥ उड्डे बच्चइ जेणं,
न हु देवा तेण आवंति ॥ १६३ ॥” इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः ॥ मदनागमनेप्येत-कारब्धं किमीदृशम् ? H॥ १६४ ॥ अन्यच्च दिव्यनाट्यादि-विलोकनकुतूहलात् ॥ कालं यान्तं बहुमपि नैव जानन्ति निर्जराः ।। १६५ ॥ युप्मामिरपि
तदिव्य-नाटकाक्षिप्तमानसः ॥ ऊर्द्धस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहर्तवत् ॥ १६६ ॥ तद्भदन्ताः! विमोहोऽयं, कर्तुं वो नैव | युज्यते ॥ कल्पान्तेऽपि किमु क्षीरा-म्भोधिरुल्लङ्घतेऽवधिम् ॥१६७ ॥ भवादृशा अपि यदा, कुर्वन्त्येवमनीरशम् ।। दृढधर्मा जग|ति क-स्तदा ह्यन्यो भविष्यति ? ॥ १६८ ॥ तदुराचरितं सर्व-मालोच्येदं महाधियः । ॥ समाचरत चारित्रं, कर्मकक्षहुताशनम् P॥ १६९ ॥ गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः॥ स सूरिः स्वदुराचारं, भूयो भूयो निनिन्द तम् ॥ १७०॥ वारं वारं || | च तं देव-मार्याषाढोऽब्रवीदिति ।। साधु साधु त्वया वत्स !, बोधितोहं महामते ! ॥ १७१ ।। अहं हि नरकाध्वानं, प्रपन्नो ऽपि स्वकर्मभिः॥ मोक्षमार्ग त्वयैवाऽथ, प्रापितो भावबन्धुना ॥ १७२ ॥ धर्माद्धष्टस्य मे भूयो, धर्मदानविधायिनः॥ तवाऽ नृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् ॥ १७३ ॥ तं देवमभिनन्द्येति, स्वस्थानमगमद्गुरुः ॥ आलोचितप्रतिकान्त-स्तपोत्युग्रं चकार च ॥ १७४ ॥ सुरोऽपि सरिं नत्वा तं, प्रमोदभरमेदुरः॥ क्षमयित्वा स्वापराधं, सुरलोकमगात्पुनः ॥ १७५॥ नाषाढ
, “सक्रान्तदिव्यप्रेमा, विषयप्रसक्तासमाप्तकर्तव्या। अनाधीनमजुजकार्या, नरभवमधुचि न यन्ति सुराः" । " चत्वारि पञ्च योजनशतानि गन्धस्तु मनुष्यलोकस्य । उद्धं गच्छति येन, नैव देवाः तेन भाषान्ति" ॥