________________
उचराध्यमनसूत्रम्
॥११॥
मुखरो बहुविधासंबद्धभाषी, निष्काश्यते सर्वतः कुलगणसंघादेर्बहिः क्रियते इति सूत्रार्थः ॥ ४ ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतौ दौशील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेतदेव दृष्टांतेन दर्शयति
मूलम् - कणकुंडगं चइणाणं, विडं, भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ॥ ५ ॥
व्याख्या— कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकस्तं त्यक्त्वा विष्टां पुरीषं भुंक्ते, शूकरो गर्भाशुकरो यथेति | गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानमिज्ञत्वात् , यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्य दुर्गतिपातमपश्यन्निर्विवेको दुःशीले रमते इति सूत्रार्थः ॥ ५ ॥ उक्तमुपसंहृत्य कृत्यमुपदिशति—
मूलम् -- सुणिआभावं साणस्स, सूअरस्त नरस्स य। विणए ठविज्ज अप्पाणं, इच्छंतो हिमपणो ॥ ६॥
व्याख्या-- श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, विनयादेव हितावाप्तेर्यदुक्तम्"विणया नाणं नाणाओ, दंसणं दंसप्माओ चरणं च ॥ चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ॥ १ ॥ इति सूत्रार्थः ॥ ६ ॥ यतश्चैवं ततः किमित्याह-
मूलम् - तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धपुत्तनिआगडी, न निक्कसिजइ कण्हुइ ॥ ७ ॥
अध्य० १ ॥११॥