________________
अम.
उचराध्ययनसूत्रम् ॥१०॥
IG१०॥
ऽपयाति नियतं, पुरीरोधोऽधुनैव हि ॥ १४ ॥ प्रोक्तो धूर्तेन तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भक्तुमारेमे, धूर्तेः को न हि बंच्यते ॥ १५॥ स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः ॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः ॥ १६ ॥ ततः सप्रत्ययैौकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुव्य कूणिकोऽविक्षत , पुरी सबलवाहनः॥१७॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्कियाः ॥ चेटको न्यपतत् कूपे, बद्धवाऽयःपुत्रिकां गले ॥१८॥ तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः॥ साधर्मिकं तमादाय, निनाय भवने निजे ॥ १९॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ ॥ २० ॥ इतश्च सुज्ये१ ठासूनु-दोहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः ॥ २१ ॥ मातामहप्रजां सर्वां, लुंख्यमानां स रक्षितुम् ।।
निनाय नीलवत्यद्रौ, द्रुतमुत्पाव्य विद्यया ॥ २२ ॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण प्रतिज्ञः स्वपुरीं ययौ ॥ २३ ॥ कूलवालकनामा तु, मृत्वागान्नरकं कुधीः ॥ उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ॥ २४ ॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् ।। धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः ।। २५ ।। इति कूलवालककथा, इति सूत्रार्थः ॥ ३ ॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, निकसिज्जइ सव्वसो। एवं दुस्सील पडिणीए, मुहरी निकसिज्जइ॥४॥
व्याख्या--यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात कृमिकलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काद्र श्यते बहिः कर्ण्यते, 'सबसो'त्ति सर्वेभ्यो गृहांगणादिभ्यो "हत हत" इत्यादिवाक्यैलेंष्ट्रादिभिश्च, अत्र च शुनीति स्त्रीनिर्देशोऽतीवकु| सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वांगकुत्सासूचकम् , उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, |
क