SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ उपराज्य यनसूत्रम् ॥ १६३॥ वृत्तान्तं विज्ञायैवमवोचत ।। ११२ ।। खानितं हि त्वयैवेदं, सरो वृक्षाच रोपिताः ॥ प्रवर्तिता मखाथाऽथ, किं 'बुबू' कुरुषे पशो ! ॥ ११३ ॥ इति साधुवचः श्रुत्वा स छागो मौनमाश्रयत् ॥ स्वकर्मण्युदिते किं हि बूस्कारैरिति चिन्तयन् ॥ ११४ ॥ | तुष्णीकः साधुवाचाऽय - मजोऽभूदित्यवेत्य ते ॥ अथाऽपृच्छन् द्विजाः साधु - मित्याश्चर्य भराकुलाः ।। ११५ ।। किमेष मेषों भगव| नाकर्ण्य भवतां वचः । तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृतः ॥ ११६ ॥ मुनिर्जगौ भवतातो, मृत्वाऽसौ छगलोऽभवत् ॥ दृष्ट्वा | चैतत्तटाकादि, जातिस्मरणमासदत् ॥ ११७ ॥ ततो दुःखाद्बुबुध्वान - मुच्चैः कुर्वन्मयोदितम् || स्वकर्मणां दोषममुं ज्ञात्वा मौनं | दधौ द्रुतम् ॥ ११८ ॥ ततस्तदङ्गजाः प्रोचुः कः प्रत्यय इह प्रभो ! ॥ विना प्रत्ययमुक्तं हि परोक्षं श्रद्दधीत कः १ ॥। ११९ ।। साघुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् ॥ निधिं चेद्दर्शयत्येष, तदा तद्यथातथम् ॥ १२० ।। तदाकर्ण्य निधिस्थानं दर्शयेत्यु| दितः सृतैः || छागो गत्वा निधिस्थाने, पादाग्रेणाऽखनद्ध्रुवम् ॥ १२१ ॥ ततस्ततनयैर्जात-प्रत्यययतिसन्निधौ । स छागो मुमुचे | जैन धर्मश्व प्रत्यपद्यत ॥ १२२ ॥ धर्मे श्रुत्वा मुनेस्तस्मा - न्मेषोऽपि प्रतिपद्य सः ॥ विहितानशनः सद्यो देवेंभूयमविन्दत ॥ १२३ ॥ प्रेत्य मे शरणं भावी - त्याश्या स द्विजो यथा ॥ तटाकादि व्यधात्तच्च तस्याशरणतामगात् ॥ १२४ ॥ एवं मयाऽपि | मीतेन, मवन्तः शरणीकृताः ॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ १२५ ॥ इत्थं चतुर्भिराख्यानै - गुरो ने नोदितैरपि । न दुर्भावो न्यवर्त्तिष्टा-साध्यो रोग इवौषधैः ॥ १२६ ॥ ततस्तस्याऽप्यलङ्कारान्, स्वरिर्जग्राह पूर्ववत् || लुब्धो जनो हि नो द्रव्यै- स्तृप्यत्यब्धिरिवाम्बुभिः ।। १२७ ।। एवं षण्णां कुमाराणामाचैराभरणत्रजैः ॥ प्रतिग्रहं दुर्विकल्पै - रात्मानं च १ या २-३ भजः । ४ स्वर्गम् । अध्य०१ ॥१६३॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy