________________
मूचानमप्यमुम् ॥ नाऽनूचानोऽमुचद्गस्तं, जनं दुष्ट इव ग्रहः ।। ८०॥ ततस्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्मकः ॥ "तथाहि चराय काप्यभूदामे, द्विजन्मा कोऽपि कामुकः ॥ ८१ ॥ तस्य चासीत्सुता मध्य-वयोभूषितभूना ॥ उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् | बनस्त्रम् | ॥ ८२ ।। अन्यदा तां सुतां वीक्ष्य, रिंसुः स द्विजोऽभवत् । न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ॥ ८३ ॥ तां
1॥११॥ ॥१६॥
च कामयमानोऽपि, न सिषेवे स लज्जया ॥ तत्कामस्थानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ॥ ८४ ॥ तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तद ङ्गना । अप्राक्षीक्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ॥ ८५ ॥ ततः सा व्यमृशद्दक्षा, योनां नाप्नुयादयम् ॥ तदावश्यं विपघेत, द्राग् दशां दशमीं गतः ॥८|| विधायाकार्यमप्येत-त्तदेनं जीवयाम्यहम् ॥ निजो भर्ता हि पत्नीभि-जीवनीयो यथा तथा | ॥ ८७ ॥ सा विचिन्त्येति तं प्रोचे, मा कारिधृति प्रिय ! ।। अहं केनाऽप्युपायेन, करिष्यामि तवेहितम् ॥ ८८ तमित्याश्वास्य सा | पुत्री-मिति प्रोवाच दम्भिनी ।। पूर्व हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाह्यते ।। ८९ ॥ कृष्णभूतेष्टानिशायां, तत्वं यक्षालयं व्रजेः॥ | त्वां भोक्तुमुद्यतं तत्रा-ऽऽगतं यक्षं च मानयेः ॥९० । हे पुत्रि! तत्रोद्योतं च, मा कार्यक्षमीक्षितुम् ॥ उद्योते हि कृते यक्षः,
सरोपमुपयास्यति ॥ ९१ ॥ तच्छ्रुत्वा मातृविसम्भा, स्वीचके साऽपि तद्वचः॥ विस्रब्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते २॥९२ ॥ रात्रौ च मातृप्रोक्तायां, सा यवेक्षणकौतुकात् ॥ शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ॥ ९३ ॥ तन्मात्रा प्रहितो रे
भट्टो-ऽप्याऽऽगात्तद्यक्षमन्दिरम् ॥ तां चोपभुज्य निःशवं, रतश्रान्तोऽखपीत्सुखम् ।।१४॥ शरावसम्पुटाद्दीप-माविष्कृत्याऽथ कौतुकात् ॥ पश्यन्ती तत्सुता तत्र. तातं दृष्ट्वैत्यचिन्तयत् ॥ ९५ ॥ अहो मया समं माया, मात्राऽपि महती कृता ।। भर्ता तदयमेवास्तु,
१ भाचार्यः । २ वीः । शरीरा । । विनम्भः विश्वासः । ५ विश्वस्तः ।