________________
चिन्तयेत् , अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥ निदर्शनं चात्र, तथाहिउचराध्य
वत्माभूमौ भूरिशिष्य-परिवारा बहुश्रुताः ॥ आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः॥१॥ यो यस्तेषां गणे भक्तं, बनसूत्रम्
प्रत्याख्याय व्यपद्यत ॥ तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन ॥२॥ देवभावङ्गतेनाऽऽशु, देयं मे दर्शनं त्वया । इत्युक्ते॥१५६॥
P१५६॥ ऽपि बदनां तै-नामाकोऽपि दिवं गतः ॥३॥ अथाऽन्यदा खशिष्यं ते, निर्याम्यातीव वल्लभम् ॥ एवमुचुः सनिर्बन्ध, गुरवो
गद्गदाक्षरम् ॥४॥ स्वर्गङ्गतेन भवता, वत्स ! वत्सलचेतसा ॥ अवश्यं दर्शन देयं, त्वामिति प्रार्थये भृशम् ॥ ५॥ मया हि 8 बहुसाधूना-मेवमुक्तमभूत्परम् ॥ नाऽऽगात्कोऽपि त्वं तु वत्सा-गच्छेः स्नेहममुं स्मरन् ।।६।। तत्प्रपद्यविपद्याशु, देवीभूतोऽपि स दाइतम् ॥ नाययौ प्रथमोत्पन्न-सुरकाविलम्बितः ॥७॥ तस्मिननागते सद्यो, विपर्यस्तमना गुरुः॥ एवं व्यचिन्तयन्नूनं, परलोको
| न विद्यते ! ॥ ८॥ ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः ॥ विहितानशनाः सम्य-ग्मया नियमिताः स्वयम् ॥९॥ मद्वाचं 8 प्रतिपनाच, विनेया मम ये मृताः ॥ स्नेहलेष्वपि तेब्वेकोऽप्याऽऽगानो कथमन्यथा ? ॥१०॥ (युग्मम् ) तदध यावच्चक्रेऽसौ,
क्रिया कष्टप्रदा मुधा ॥ भोगान् हित्वा मनोज्ञांच, मयात्मा वञ्चितो वृथा ॥ ११ ॥ भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जैनुः॥ | परलोके असति का, क्लिश्यते कुशलो सुधा ॥ १२ ॥ विमृश्येति स्वलिङ्गस्थ, एव मिथ्यात्वमाश्रितः॥ उत्प्रव्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ ॥ १३ ॥ अत्रान्तरेऽवधिज्ञाना-स्वरूपं स्वगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ॥१४॥ अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि ॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः ॥ १५ ॥ अहो ! मोहस्य महिमा,
। स्वर्गम् । २ साग्रहर । ३ शिष्याः । ४ जन्म । ५ साधुवेशस्थः ।