________________
॥१५७॥
जगज्जेत्रो विजृम्भते ॥ जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः ॥ १६॥ कुलवानपि धीरोऽपि, गैमीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादा, कल्पान्तादिव वारिधिः ॥ १७॥ तन्मोहोरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विबोध्याहं, कुर्वे
13 अध्या
M॥१५७॥ | सन्मार्गमाश्रितान् ॥ १८ ॥ ध्यात्वेत्यागत्य स सुरः, स्वगुरोर्गमनाध्वनि । ग्राममेकं विचके तत्-पार्श्वे दिव्यं च नाटकम् ॥ १९ ॥ ततः स मूरिस्तन्नाटयं, प्रेक्ष्यमाणो मनोहरम् ॥ ऊर्द्ध एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ २० ॥ शीतातपक्षुधातृष्णा-पण्मासातिक्रमश्रमान् ॥ दिव्यानुभावामाज्ञासी-सन्नाटचं स विलोकयन् ।। २१ ॥ तस्मिन्नृत्येऽथ देवेन, संहते सोऽचलत्पुरः॥ क्षणमेकं शुभं नाट्य, दृष्टं दिष्टयेति भावयन् ।। २२ ।। स देवोऽथ तदाकूतं, परीक्षितुमलङ्कृतान् ॥ षट् जीवकायसञ्ज्ञान् षट्, विदधे बालकान् वने ॥२३॥ दृष्ट्वाथ सूरिस्तेष्वाद्य, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्था-ऽलङ्कारानाच्छिनम्यहम् ।। २४ ॥ एषां 3 | द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ।। २५॥ विमृश्येति स तं धीर-कण्ठं|
सोत्कण्ठमब्रवीत् ॥ रे ! मुश्च मुश्चालङ्कारान्, बालकः स तु नाऽमुचत् ॥ २६ ॥ ततो रुष्टः स तं शीव, जग्राह गलकन्दले ॥ सोऽर्भको. | ऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ २७ ॥ अस्यामटव्यां भीमायां, विम्यञ्चौराापद्वात् ।। पृथ्वीकायिकसञोऽह-मस्मि है त्वां शरणं श्रितः ॥ २८ ॥ अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ॥ २९॥ बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! ततः ॥ तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ॥ ३० ॥ यता-"विहलं जो
1 जयनशीलः । २ गम्भीरो इति हर्ष प्रती । ३ भाग्येन । ४ भावम् । ५-६ बालम् । ७ विह्वलं यः अवलम्पति, भापत् पतितं च यः समुदरति । शरणागतं च रक्षति, त्रिभिः तैः अलङ्कृता पृथिवी ॥1॥