________________
अध्य. *॥१५॥
मूलम्–णथि नूणं परे सोए, इड्डिवावि तवस्सिणो। अदुवा वंचिओ म्हित्ति, इइ भिक्खू न चिंतए ॥४४॥ चराध्य
व्याख्या-नास्ति 'नूनं निश्चितं 'परलोक' जन्मान्तरं, भृतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनश्च प्रत्यक्षतयाऽयनरत्रम् । ॥१५५
| नुपलभ्यमानत्वात् । 'ऋद्धिर्वा' तपोमाहात्म्यरूपा आमोषध्यादिः, साऽपि नैव विद्यते, अपेन्निक्रमत्वात्तपस्विनोऽपि सतो ममेति
गम्यते, तस्या अप्यनुपलभ्यमानत्वादेवेति भावः । “अदुव"ति अथवा वञ्चितोऽस्मि, भोगानामिति शेष:, 'इति' अनेन शिरस्तु| ण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन 'इति' एतद्भिक्षुन चिन्तयेत । यत आत्मीय आत्मा स्वप्रत्यक्ष एव, चैतन्यादितद्| गुणानां मानसप्रत्यक्षेण स्वयमनुभवात , केवलिनां तु सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेप्यास्मानो भवान्तरगामित्वादस्त्येव परलोक इति । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमध्ययुक्त, भोगानां दुःखात्मकत्वात् , उक्त-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः।। अविवेकिजना.
चरिता, विवेकिजनवर्जिताः पापाः ॥९॥" पोपि न यातना, दुःखनिवन्धनं, कर्मक्षयहेतुत्वात् , यथाशक्तिविधानाच, यदुक्तं-सो हु 8 तवो कायब्वो, जेण मणो मंगुलं न चिंतेई ॥ जेण न इंदिअहाणी, जेण य जोगा न हायंति ॥१॥ इति स्त्रार्थः ॥४४॥ तथामूलम्-अभू जिणा अस्थि जिणा, अदुवा वि भविस्सई । मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ॥४५॥
व्याख्या-'अभूवन्' आसन् 'जिनाः' केवलिनः, "अत्थि" ति निपातः ततश्च 'अस्ति' विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि 'मृषा' अलीकं, '' जिनास्तत्त्ववादिना, 'एवम्' अनन्तरीक्तप्रकारेण 'आहुः कथयन्ति, इति भिक्षुने
तुण्ड मुखम् । २ "सो हि तपः कर्तव्यो, येन मनःभाशुभं न चिंतयति । येन न इन्द्रियहानियेन च योगा न हीयन्ते ॥॥"