________________
उपराज्ययनसूत्रम्
।। १५४ ॥
लोकोक्तिमिति भावयन् ॥ ८ ॥ तच्छ्रुत्वा तस्य गेहं च वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोग मकरोत्, स्थूलभद्रगुरुर्गुणी ॥ ९ ॥ स्तम्भस्याधः स्थितं दृष्ट्वा महान्तं सेवेधिं ततः । तस्य प्रियवयस्यस्योपकारं कर्तुमुद्यतः ॥ १० ॥ मित्रप्रियायै तं स्तम्भं दर्शयन करसञ्ज्ञया ॥ धर्मोपदेशव्याजेने -त्युवाच मुनिपुङ्गवः ॥ ११ ॥ [ युग्मम् ] इदमीदृक् तच्च तादृकू, पश्य जातं हि कीदृशम् १ ॥ इदं च वदतस्तस्याऽभिप्रायोऽयमभूद्गुरोः ॥ १२ ॥ इदमीदृग् द्रव्यजातं स्ववेश्मन्येव विद्यते । तथाप्यज्ञानतोऽभूत्त-दमणं तस्य तादृशम् ॥ १३ ॥ प्रेक्षख कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता - स्तदाकर्ण्यत्यचिन्तयन् ॥ १४ ॥ वेश्मेदं चारु वीक्ष्य प्राग्, जीर्णप्रायं च साम्प्रतम् ।। अनित्यतादर्शनार्थ, भगवन्तो वदन्त्यदः ॥ १५ ॥ तस्यै पुनः पुनः प्रोच्य, स्थूलभद्रोऽपि तत्तथा ॥ पीदाब्जैः पावयन्नुर्वी, विहरन्नन्यतो ययौ || १६ || आगाभिर्धन एवाऽथ, धनदेवो निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह धनेश्वरी ॥ १७ ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे वद । साऽभ्यधात् स्थूलभद्रो न किश्चिदूचे विशेषतः ॥ १८ ॥ किन्त्वेनं स्तम्भम-दर्शयन्नित्यभाषत । इदमीदृक् तच्च तादृक् पश्य जातं हि कीदृशम् ॥ १९ ॥ धनदेवस्तदाकर्ण्या -ऽध्यासीदेवं कुशाग्रेधीः ।। नैव निर्हेतुकां चेष्टां तादृशाः क्वापि कुर्वते ? || २० || तन्नूनमस्य स्तम्भस्या धस्ताद्भावी निधिः कचित् ॥ ध्यात्वेत्युदखनत् स्तम्भं, निधिश्वाविरभून्महान् ॥ २१ ॥ धनदेवो निधेस्तस्मा - नानाविधमणिव्रजम् || आसाद्यापेतदारिद्र्यो, बभूव धनदोपमः || २२ || भगवान् शकटालनन्दनर्षिर्न यथा ज्ञानपरीषदं विषेहे || अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवभीरैः ॥ २३ ॥ इति ज्ञानपरिषहे स्थूलभद्राचार्यकथा ॥ २१॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शन परीषहमाह
१ कोशम् । २ अयुक्तम् । ३ चरणकमलैः । ४ अनेकशः । ५ तीक्ष्णबुद्धिः । ६ गमितद्वारिद्र्यः ।
अध्य०२ |॥१५४॥