________________
अन्य
७
॥
%-str
प्रयत्नं कुर्वतोऽपि ते ॥ इदमध्ययनं नाया-त्यनुज्ञा क्रियते तदा ॥२८॥ स प्रोचेऽध्ययनस्याऽस्य, खामिन् ! योगोस्ति कीशः॥ पराया गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ॥ २९ ॥ ततः शिष्योऽभ्यधादस्या-नुज्ञया मेऽधुना कृतम् ॥ आचाम्लानि करिष्येऽहं, बनमत्रम्
यावत्पठनमन्वहम् ॥३०॥ इत्युक्त्वा स प्रतिदिनं, कुर्वन्नाचाम्लसत्तपः ॥ अभ्यस्यति साऽध्ययनं, तदनिर्विणमानसः ॥३१॥ जडो ॥१५॥
हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत, ॥ स तु खकीय कर्मैव, निनिन्द ज्ञानबाधकम् ॥ ३२ ॥ एवं द्वादशभिव-स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ॥ ३३ ॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥ क्रमाञ्च केवलज्ञानं, प्राप्य निवृत्तिमासदत् ॥ ३४ ॥ इति साधुवरो विसोढ-बानयमज्ञानपरीषहं यथा ॥ अनगारपुरन्दरैः प-रैरपि सह्यः स तथा धमापरैः ॥ ३५ ॥ इत्यज्ञानपरीषहसहनेऽशकटापितृमुनिकथा ॥ ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि
चतर्दशानां पूर्वाणां, पारदृश्वा महामुनिः कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत ॥१॥ तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः ॥ धनदेवामिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ॥ २॥ तस्मिन्भन्तुमनायाते, स्थूलभद्रगुरुः स्वयम् ॥ जगाम सहदो धाम, तं चाऽपश्यद्धनेश्वरी ॥३॥ ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् ॥ ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ॥४॥ धनदेवः कुत्र यातः ?, इत्यप्राक्षीच तत्प्रियाम् ।। सुदीर्घान्साऽपि निःश्वासा-मुश्चन्तीत्यवदत्तदा ॥५॥ स्वामिन्मम प्रियः सर्व, व्ययते स्म बहिर्धनम् ॥ धनहीनश्च लेमेऽसौ, सर्वत्राप्यति लाघवम् ॥ ६ ॥ ततः सोऽन्वेषयामास, निधीन पित्रादिसश्चितान् । विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥ ७ ॥ मम कान्तोऽथ वाणिज्य हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति बाणिज्ये,
भनिर्विष्णः खेदरहितः । २ मित्रम् ।
%
C4%AESA