________________
उपराष्यबनसूत्रम्
॥१४९॥
| शैर्दुष्टै - रविनीतैः प्रमादिभिः । खिन्ना अमी विमुच्यास्मा - नत्रैकाकिन आययुः ॥ ३७ ॥ प्रमादेन यथास्माभिरानेन तथा त्वया || अवज्ञाताः सूरयस्त - त्सागर ! स्मो वयं समाः ।। ३८ ।। इत्युक्त्वा ते खापराधं क्षमयाञ्चक्रिरे गुरोः ॥ सागरायऽपि सम्भ्रान्तः, सूरीभत्वैवमब्रवीत् || ३९ ॥ युष्माकं विश्वपूज्यानां यदज्ञानवशान्मया ॥ आशातना कृता तस्या, मिथ्या दुष्कृतमस्तु मे ! ॥ ४० ॥ वारं वारमुदीर्यैव - मित्यप्राशीच्च सागरः ॥ भुतं व्याख्यामि कीदृक्ष - महं ब्रूत पितामहाः । ॥ ४१ ॥ सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि ॥ तथापि गर्व मा कार्षीः, सर्वज्ञो सस्ति कोऽधुना ? ॥ ४२ ॥ इत्युक्त्वा कालकाचार्याः, पल्लुक वालुकाभृतं ॥ नद्या आनाययं स्तस्य प्रतिबोधाय धीधनाः ॥ ४३ ॥ स्थाने क्वाऽप्यखिलां क्षिप्त्वा, रेणुमुद्धृत्य तां पुनः । द्वितीयस्थानके न्यास्थं स्ततोsपि च तृतीयके ॥ ४४ ॥ स्थानेषु बहुषु क्षेपं, क्षेपमेवं समुदुष्टताः । वालुका जज्ञिरे स्तोक-तरा भूम्यादिसङ्गतः ॥ ४५ ॥ प्रदर्श्य रेणुदृष्टान्त - मेवं ते सागरं जगुः ॥ वत्स ! नद्यां यथा सन्ति भूयस्यो वालुकाः स्वतः ॥ ४६ ॥ विज्ञानमेवं सम्पूर्ण - मनन्तमविनेश्वरम् ॥ अभूत्स्वतो जिनेन्द्रेषु, लोकालोक प्रकाशकम् ॥ ४७ ॥ पल्लुकेन यथोपात्ताः सरितः स्तोकवालुकाः ॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ॥ ४८ ॥ स्थाने स्थाने च निक्षिप्यो -त्क्षिप्ताः क्षित्यादिसङ्गतेः ॥ श्रीयमाणा यथाऽभूवन्, | स्तोकाः पलकवालुकाः ।। ४९ ।। तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ ' कालादिदोषतः शिष्ये- स्वल्पाल्पतरबुद्धिषु ॥ ५० ॥ विस्मृत्यादेः क्षीयमाण - मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येति, न कार्यो घीमदः क्वचित् ॥ ५१ ॥ [ युग्मम् ] एवमेवा - मृत्पिण्ड दृष्टान्तमपि दर्शयन् ।। उज्जगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! ।। ५२ ।। यतः - " मी वहउ कोवि गवं, इत्थ जगे
१ शाश्वतम् । २ मा वहतु कोपि गढ़, इह जगति पण्डितोऽहं चैव आसर्वज्ञमतितः, तरतमयोगेन मति विभवाः ॥ "
अभ्य०२ |॥१४९॥