________________
उपराज्ययनसूत्रम् ॥१४६॥
'कृतानि' ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं - " ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विमैश्व, ज्ञानभं कर्म बध्यते ||| १ ||" मयेत्यभिधानं च स्वयमकृतस्योपभोगासम्भवादुक्तं हि - " शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः ॥ स्वयमेवोपशुज्यन्ते, दुःखानि च सुखानि च ॥ १ ॥” कुत एतदित्याह - येन हेतुनाहं 'नाभिजानामि' नावबुध्ये, पृष्टः 'केनचित् ' स्वयम जानता 'कस्मिंश्चित्' जीवादौ वस्तुनि सुगमेऽपीति सूत्रार्थः ||४०|| आह यदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि । उच्यतेमूलम् - अह पच्छा उइजंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, नच्चा कम्भविवागयं ॥ ४१ ॥
व्याख्या- 'अथ' इति वाक्यान्तरोपन्यासे, 'पश्चाद्' अबाधोत्तरकालम् 'उदीर्यन्ते' विपच्यन्ते कर्माण्य ज्ञानफलानि कृतानि, द्रव्यादिसाचिन्यादेव तेषां विपाकदाना चतस्तद्विघातायैव यत्नो विधेयो न तु विषादः, 'एवम्' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा 'कर्मविपाककं' कर्मणां कुत्सित विपाकमिति सूत्रार्थः ॥ ४१ ॥ इदच सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाच्चास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षेऽपि नोत्सेको विधेय इत्यपि दृश्यं, यदुक्तं'पूर्व पुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रत पुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ? ॥ १ ॥ इति' निदर्शनश्चात्र, तथाहिउज्जयिन्यां पुरि स्वर्ग-जयिन्यां निजसम्पदा || अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥ १ ॥ बहुश्रुतानां निर्ग्रन्थधर्माम्भोजविवस्वेताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः सर्वे पार्श्वस्थतां दधुः ॥ २ ॥ साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभिरपि तेऽन्तर्दधुः क्रुधम् ॥ ३ ॥ तथापि शिक्षयामासु-स्वानाचार्या शुशिक्षया ॥ शुनो लांगूलवचे तु तत्य
१ सूर्याणाम् । २ पुच्छवत् ।
अध्य०१ १ ॥१४६॥
छলOK