________________
U
S
१४॥
वनसूत्रम् मा
॥१४५॥
5
+
पातयिष्यामि विद्यया ॥१६॥ [युग्मम् ] तनिशम्य तथाऽकार्षी-दिभ्योऽपतञ्च तद्द्वहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ-मित्यूचे तुष्टमानस: *॥१७॥ युष्मान्हन्तुमुपायोऽय-मनेन विहितोऽभवत् ॥ न चेनव्योऽप्यसौ कस्मा-दकस्मानिलयः पतेत् ? ॥१८॥ ततः क्रुद्धो | नृपो बट्टा-र्पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठिं-स्तद्विदध्या इति ब्रुवन् ॥१९॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः॥
श्रेष्ठीन्द्रकीले तत्पाद, उत्तुकामो न्यधात्ततः॥२०॥ पुरोधाः कान्दिशीकोऽथा-ऽब्रवीदेवं सगद्गदम् ॥ तं साध्ववज्ञामन्तुं मे, सहख, | त्वं महामते ! ॥ २१॥ नैवं मुनिजनावज्ञां,करिष्येऽहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुश्च माम् ॥ २२ ॥ | तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् ।। जैना हि द्रुतमेव स्युः, क्रुद्धाः अप्याद्रमानसाः॥२३॥ अथ पिष्टमयीं कृत्वा,
मृति तस्य पुरोधसः ॥ श्रेष्ठी छित्त्वा च तत्पाद, स्वां प्रतिज्ञामपूरयत् ॥ २४ ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा | विधेयम् ॥ किन्त्वेष सर्वैव्रतिभिः पुरोधो-ऽवज्ञातवाचंयमवद्विषयः ॥२५॥ इति सत्कारपुरस्कारपरीषहे साधुश्राद्धकथा॥१९॥
इहात्र पूर्वञ्च श्रावकस्य यत् परीपहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् , उक्तश्च-"तिण्डंपि णेगमणओ, परीसहो जाव उज्जुसुत्ताओचि" अत्र “तिह"ति त्रयाणां सर्वविरतदेशविरताविरतानामिति । साम्प्रतं पूर्वोक्ताशेषपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेको स्यातामिति प्रज्ञापरीषहमाहमूलम् –से नृणं मए पूव्वं, कम्मानाणफला कडा। जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ॥ ४०॥
व्याख्या-से शब्दो ऽथशब्दार्थ उपन्यासे, 'नूनं निश्चितं मया 'पूर्व' प्राक् कर्माणि 'अज्ञानफलानि' ज्ञानावरणरूपाणि १ सौधः । २ भयभीतः ।
+
+
+
+%