SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ उपराज्य मनसूत्रम् ॥१४१ ॥ "धिसुव" ति ग्रीष्मे वा शब्दाच्छादि वा परितापेन हेतुभूतेन, अयं भावः - परितापाद्धि स्वेदा, स्वेदाच्च पङ्करजसी, ततश्च क्लिनगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह - सातं सुखमाश्रित्येति शेषः, 'नो परिदेवयेत्', कथं कदा वा मे मलापगमेन सातं भावीति न प्रलपेदिति सूत्रार्थः ।। ३६ ।। किं तर्हि कुर्यात् ? इत्याह मूलम् - वेज निज्जरापेही, आरिअं धम्ममणुत्तरं ॥ जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७ ॥ व्याख्या- 'वेदयेत् सहेत, प्रक्रमात् जलजनितं दुःखं, 'निर्जरापेक्षी ' आत्यन्तिककर्मक्षयाभिकाङ्क्षी, 'आर्य' सर्वाशुभाचार रहितं, 'धर्म' श्रुतचारित्ररूपं, 'अनुत्तरं ' सर्वोत्तमं प्रपन्न इति शेषः । अथ सामर्थ्योक्तमप्यर्थे विशेषाद्वयक्तीकुर्वन्नाह - जावेत्यादि - यावदिति मर्यादायां, 'शरीरभेदः' देहनाशस्तं मर्यादीकृत्य, 'जल्लं' मलं 'कायेन' अङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुञ्जावगुण्ठिता मलाविलकैलेवरा नराः, अकामनिर्जरातश्च न कश्वित्तेषां गुणो मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदार्थ स्नानादि कुर्यात्, यतः - " न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि ॥ अश्रान्तमिव स्रोतोभिर्नवभिर्मलमुद्गिरत् ॥ १ ॥ इति सूत्रार्थः ॥ ३७ ॥ कथानकश्चात्र, तथाहि अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः । स च श्राद्धः सर्वपण्यै - वर्व्यवहारं विनिर्ममे ॥ १ ॥ यदौषधादिकं तस्य, पार्श्वे योऽमार्गयन्मुनिः ॥ स तत्तस्मै ददौ दर्पा - ssविष्टः किञ्चिदवज्ञया ॥ २ ॥ तस्य हट्टेऽन्यदा जग्मु - ग्रीष्मकाले महर्षयः ॥ भैषज्यार्थ | परिस्वेद-मलक्लिन्नकलेवराः ॥ ३ ॥ तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता ॥ भेषजानामशेषाणा - मपि गन्धोऽभ्यभूयत ॥ ४ ॥ १ कान्तिरहित । २ व्याप्ता । ३ मलढयासशरीराः । अप्य०१ ॥ १४१ ॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy