SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ बनसूत्रम् ॥१४०॥ सोढव्या, जिनकल्पिकापेक्षश्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थः॥३६॥ उदाहरणश्चात्र, तथाहिश्रावस्तीनगरीमर्तु-र्जितशत्रुमहीपतेः॥ भद्राभिधोऽभवत्पनुः, साविकेषु शिरोमणिः ॥१॥ मुनीनामन्तिके जैन, ॥१४॥ धर्म श्रुत्वा विरक्तधीः॥ स प्रव्रज्यामुपादत्त, क्रमाच्चाऽभूबहुश्रुतः॥२॥ प्रतिपद्याऽन्यदैकाकि-विहारप्रतिमा व्रती॥ विजहार धरापीठे-ऽप्रतिबद्धः समीरवत् ॥ ३॥ अन्येयुर्विहरन् सोऽथ, कापि राज्यान्तरे गतः ।। हेरिकोयमिति ज्ञात्वा, जगृहे राजपुरुषैः ॥४॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे!॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषा ॥५॥ व्रती तु प्रतिमास्थत्वा-ब | किमप्युत्तरं ददौ ॥ ततस्ते कुपिताः क्षार-दानेन तमतक्षयन् ॥६॥ निशातखड्गवतीक्ष्ण-धारमैश्च तं मुनिम् ॥ गाढमावेष्टय मुक्त्वा | च, ते दुष्टाः स्वाश्रयं ययुः ॥ ७॥ यतेस्तीत्याऽऽमिषं बाढं, समन्तादपि तैः कुशैः॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत! ॥८॥ तथापि कलुषं ध्यान-मकुर्वाणः क्षमानिधिः॥ स सम्यगधिसेहे तं, तृणस्पर्शपरीषदम् ॥९॥ लगा शूकशिखाऽप्यने-ऽङ्गिनां क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमौः कुशैरपि ! ॥१०॥ एवं तृणस्पर्शपरीषहं यथा-ऽधिसोढवान् भद्रमुनिमहाशयः॥ तथाऽयमऽन्यैरपि साधुपुङ्गवै-स्तितिक्षणीयः क्षतमोहवैरिभिः॥११॥ इति तृणस्पर्शपरीषहे भद्रमहर्षि कथा ॥१७॥ __ तृणानि च मलिनान्ययि कानिचिद्भवन्ति तत्सङ्गमाच्च परिस्वेदेन जल्लः सम्भवतीति तत्परीषहमाहमूलम्-किलिण्णगाए मेहावी, पंकेण व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६ ॥ || व्याख्या-'क्लिनगात्रा' व्याप्तदेहो 'मेधावी' खानाकरणरूपमर्यादावर्ती, 'पडून वा' स्वेदामलरूपेण, 'रजसा वा' पांशुना, भूपीठे । २ पवनवत् । । चारः। १ कठोराः । ५ तीक्ष्णखड्नवत् । ६ दर्भः। • पतितस्य ।।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy