SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ रचराध्य पनसूत्रम् ॥१३९॥ ASSICAL | शृगालीकृतव्यथाम् ॥ सहमानो महासत्वा, प्रपाल्याऽनशनं शुभम् ॥ २९॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः॥ महामुनिर्महोनन्द-पदं प्राप महाशयः ॥ ३० ॥ [युग्मम् ] इति रोगपरिषहं यथा, परिषहे मुनिकालवैशिकः।। सकलैरपि साधुभिरस्तथा, सहनीयोऽयमुदारसाहसैः ॥३१॥ इति रोगपरीषहे कालवैशिककथा ॥१६॥ रोगिणश्च शयनादिषु दुःसहतरस्तुणस्पर्श इति तत्परीषहमाहमूलम्-अचेलगस्स लूहस्स, संजयस्स तवस्सिणो॥ तणेसु सुअमाणस्स, होजा गायविराहणा ॥३४॥ व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपस्विनः 'तृणेषु' दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेत् 'गात्रविरा४ धना' शरीरविदारणा, अत्र च सचेलस्य तपस्विनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो नातिदुःखाकरहै स्तुणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिण स्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति । सूत्रार्थः ॥ ३४॥ ततः किमित्याहमूलम्-आयवस्स निवाएणं, अउला हवइ वेअणा ॥ एअं नच्चा न सेवंति, तंतुजं तणतजिआ ॥३५॥ व्याख्या-'आतपस्य धर्मस्य 'निपातेन' सम्पातेन 'अतुला' महती भवति वेदना, ततः किं कार्यमित्याह-'एतत्' अनन्तरोक्तं ज्ञात्वा न सेवन्ते तन्तुजं वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तुणतर्जिताः । अयं भावः-यद्यपि दर्भादितणविलिखि. | तवपुष आतपोत्पन्नस्वेदक्लेदवशात क्षतक्षारनिक्षेपरूपैत्र पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरातध्यानमकुर्वाणैः सा सम्यक् , मोक्षपदम् । 5AE%ACC
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy