________________
उचराध्य
यनस्त्रम्
॥१३५॥
मिविनेयेषु, को तु दुष्करकारकः ? ॥ १७ ॥ उवाच भगवान् सर्वे ऽप्यमी दुष्करकारकाः ! ॥ सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः ! ॥ १८ ॥ हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः ॥ परीषहस्यालाभस्य, सहनादिकमभ्यधात् ॥ १९ ॥ ततो भक्तिभरोदश्च - द्रोमाञ्चः केशवोऽवदत् । महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते १ विभो ! ॥ २० ॥ जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् || नगर्यां प्रविशस्तस्यां पश्यसि त्वं मुकुन्द ! तम् ॥ २१ ॥ श्रुत्वेत्यर्हन्तमानम्य दाशार्हो द्वारकां ययौ । तदीयदर्शनौत्सुक्य- सिन्धुपूरप्रणुन्नहृत् || २२ | पुर्यां च प्रविशन् क्षाम - विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्तिमन्तं धर्ममिवाऽच्युतः ॥ २३ ॥ ततोऽतिमुदितो विष्णु-भक्तिभावोल्लसन्मनाः ॥ उत्ततार करिस्कन्धा - दाष्ट इव तद्गुणैः ॥ २४ ॥ इलॉतलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निराबाधविहारं च पप्रच्छ रचिताञ्जलिः ।। २५ ।। विष्णुना वन्द्यमानं च कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष गोविंन्दोऽयं हि वन्दते ! ॥ २६ ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्मै श्रद्धाशुद्धाशयो ददौ ॥ २७ ॥ ढण्टणोऽथ जिनाभ्यर्णे, गत्वा दर्शितमोदकः । इत्यप्राक्षीत्किमु क्षीर्ण, तन्मे कर्मान्तरायिकम् ? ॥ २८ ॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यच्वं तत्तेऽदान्मोदकान् धनी ! ॥ २९ ॥ तच्छ्रुत्वा रागरोपादि - विहीनो ढण्ढणो मुनिः । परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥ ३० ॥ गत्वा शुद्धस्थण्डिलोय, मोदकांस्तानमूच्छितः । परिष्ठापयितुं धीरः, प्रारेमे क्षोदयन् भृशम् || ३१ || [ युग्मम् ] दध्यौ चैत्रमहो ? दाढ, कर्मणां वज्रलेपवत् ॥ अहो ! तेषाश्चाक्षयत्वं चक्रवर्तिनिधानवत् || ३२ || देवेन्द्रा दानवेन्द्राश्च नरेन्द्राश्च महाबलाः । नैव कर्मपरीणाम - मन्यथा १ दामोदर ! २-३ श्रीपतिः । ४इला भूमिः । ५ श्रीपतिः ।
अध्य०२ ॥१३५॥